१८
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस्त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे ।
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥
वल्लभदेवः त्वयि शृङ्गमुद्गते सत्याम्रकूटोऽचलो निश्चितं सुरयुगलालोकनीयां रम्यां दशामापत्स्यते । यतः परिणतफलद्योतिभिः पक्वाम्रशोभिभिर्वनाम्रवृक्षेच्छन्नोपान्तच्छादितपर्यन्तः । स्वमपि स्निग्धवेणीसवर्णोऽरूक्षकेशकलापकालः । अतश्च कृष्णचूचुकः समस्तपीतः महीकुच इवेत्युपमा । अत एव देवद्वन्द्वदर्शनम् ॥
पदच्छेदः
छन्नोपान्तःछन्न (√छद् + क्त)–उपान्त (१.१)
परिणतफलद्योतिभिःपरिणत (√परि-नम् + क्त)–फल–द्योतिन् (३.३)
काननाम्रैस्कानन–आम्र (३.३)
त्वय्य्त्वद् (७.१)
आरूढेआरूढ (√आ-रुह् + क्त, ७.१)
शिखरम्शिखर (२.१)
अचलःअचल (१.१)
स्निग्धवेणीसवर्णेस्निग्ध–वेणी–सवर्ण (७.१)
नूनंनूनम् (अव्ययः)
यास्यत्य्यास्यति (√या लृट् प्र.पु. एक.)
अमरमिथुनप्रेक्षणीयाम्अमर–मिथुन–प्रेक्षणीय (√प्र-ईक्ष् + अनीयर्, २.१)
अवस्थांअवस्था (२.१)
मध्येमध्य (७.१)
श्यामःश्याम (१.१)
स्तनस्तन (१.१)
इवइव (अव्ययः)
भुवःभू (६.१)
शेषविस्तारपाण्डुःशेष–विस्तार–पाण्डु (१.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
न्नो पा न्तःरि द्योति भिः का ना म्रै
स्त्व य्या रू ढेशि लः स्निग्ध वे णी र्णे
नू नं या स्यत्यमिथु प्रेक्ष णी या स्थां
ध्ये श्या मःस्तभु वः शे वि स्ता पा ण्डुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.