तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतोरन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥
वल्लभदेवः तस्य जीमूतस्य पुरोऽग्रतः कथमपि स्थित्वा राजराजस्य वैश्रवणस्यानुचरो भृत्योऽन्तर्बाष्पोऽस्रुकण्ठः किमप्यज्ञायमानं वस्तु चिरं दध्यावचिन्तयत् । कीदृशस्य । कौतुकाधानहेतोः केतकाख्यष्पजननकारणस्य । प्रावृषि तेषामुद्भवात् । अथ जलददर्शनमात्रेण कस्मादस्यान्तर्बाष्पत्वं ध्यानं चेत्याह । सुखिनोऽप्यवियुक्तस्यापि मेघालोके वर्षाकाले चेतोऽन्यथावृक्ति सविपर्ययमनल्पोत्कण्ठासंकुलम् । किं पुनः कण्ठाश्लेषप्रणयिनि प्रियतमाख्ये जने दूरवर्तिनि सति । वर्षासमयमागतमवलोक्य स्वस्था अपि यत्रोत्कण्ठन्ते तत्र विरहिणां का कथेत्यर्थः । कण्ठाश्लेष एव प्रणयोऽर्थिता विद्यते यस्य । मेघा आलोक्यन्ते यस्मिन्निति वर्षाः । स्वरूपात्प्रच्युतावस्थमन्यथावृत्ति ॥
पदच्छेदः
तस्यतद् (६.१)
स्थित्वास्थित्वा (√स्था + क्त्वा)
कथमपिकथम् (अव्ययः)–अपि (अव्ययः)
पुरःपुरस् (अव्ययः)
कौतुकाधानहेतोरन्तर्बाष्पश्चिरम्कौतुक–आधान–हेतु (५.१)–अन्तर् (अव्ययः)–बाष्प (१.१)–चिरम् (अव्ययः)
अनुचरोअनुचर (१.१)
राजराजस्यराजराज (६.१)
दध्यौदध्यौ (√ध्या लिट् प्र.पु. एक.)
मेघालोकेमेघ–आलोक (७.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
सुखिनोसुखिन् (६.१)
ऽप्यन्यथावृत्तिअपि (अव्ययः)–अन्यथावृत्ति (१.१)
चेतःचेतस् (१.१)
कण्ठाश्लेषप्रणयिनिकण्ठ–आश्लेष–प्रणयिन् (७.१)
जनेजन (७.१)
किं (१.१)
पुनर्दूरसंस्थेपुनर् (अव्ययः)–दूर–संस्थ (७.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
स्य स्थि त्वापिपु रः कौतु का धा हे तो
न्त र्बा ष्पश्चिनु रो रा रास्य ध्यौ
मे घा लो केतिसुखि नो ऽप्यन्य था वृत्ति चे तः
ण्ठा श्लेप्रयिनि ने किंपु र्दू सं स्थे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.