२०
तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिर्जम्बूषण्डप्रतिहतरयं तोयमादाय गच्छेः ।
अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥
वल्लभदेवः तस्या रेवाया जलमादाय गृहीत्वा त्वं यायाः । यतो वान्तवृष्टिरुत्सृष्टतोयः । कीदृशं जलम् । तिक्तः कटुकैर्वनगजमदैर्वासितं सुरभीकृतम् । विन्ध्यो हि गजावासः । तथा तीरजेन जम्बूषण्डेन जम्बूवनेन प्रतिहतरयं जडीकृतवेगमिति मुग्रहत्वोक्तिः । रेवा हि वेगगामिनी । अनेन गुणमाह । हे घनाम्भःपानादन्तःसारं परिपूर्णं सन्तं मारुतस्त्वां तुलयितुं परिच्छेत्तुं न प्रभविष्यति । यस्मात्सर्व एव कश्चिद्रिक्तः शून्योऽर्थरहितो लघुर्भवत्यवमानास्पदत्वं याति । पूर्णता तु गौरवाय भवति । आढ्यो हि सर्वेणाद्रियते । तेन तव जन्लेन गुरुत्वे सति नानिलात्परिभवप्राप्तिः ॥
पदच्छेदः
तस्यास्तद् (६.१)
तिक्तैर्तिक्त (३.३)
वनगजमदैर्वन–गज–मद (३.३)
वासितंवासित (√वासय् + क्त, २.१)
वान्तवृष्टिर्वान्त (√वम् + क्त)–वृष्टि (१.१)
जम्बूकुञ्जप्रतिहतरयंजम्बु–कुञ्ज–प्रतिहत (√प्रति-हन् + क्त)–रय (२.१)
तोयम्तोय (२.१)
आदायआदाय (√आ-दा + ल्यप्)
गच्छेःगच्छेः (√गम् विधिलिङ् म.पु. )
अन्तःसारंअन्तःसार (२.१)
घनघन (८.१)
तुलयितुंतुलयितुम् (√तुलय् + तुमुन्)
नानिलः (अव्ययः)–अनिल (१.१)
शक्ष्यतिशक्ष्यति (√शक् लृट् प्र.पु. एक.)
त्वांत्वद् (२.१)
रिक्तःरिक्त (√रिच् + क्त, १.१)
सर्वोसर्व (१.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
हिहि (अव्ययः)
लघुःलघु (१.१)
पूर्णतापूर्ण (√पृ + क्त)–ता (१.१)
गौरवायगौरव (४.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
स्या स्ति क्तैर्व दै र्वासि तं वान्त वृष्टि
र्ज म्बू ण्डप्रति यं तो मा दा च्छेः
न्तः सा रंतुयि तुं नानि लःक्ष्य ति त्वां
रि क्तः र्वोतिहि घुः पूर्ण ता गौ वा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.