२१
नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढैराविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् ।
दग्धारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥
वल्लभदेवः चिह्नैरूहिष्यन्ते । नूममनेन पथास्मत्सुहृज्जीमूत आयात इति । तर्हि मेघात्तोयकणाः पातव्या इति तदनुसरणम् । स्वादादिहृतचित्तत्वाद्व्रजंश्चासौ तैर्न लक्षित इति मार्गोन्नयनम् । किं कृत्वा सूचयिष्यन्तीति चिह्नान्याह । अर्धं रूढैः सामिपक्वैः केसरैर्हरितकपिशं नीलपिङ्गं नीपकुममं दृष्ट्वा । तद्धि वर्षासु नवजलपातं विना न जायते । तथाविर्भूतप्रथममुकुला उत्पन्नाद्यकोरकाः कन्दलीलता अनुकच्छं तीरममीपे दृष्ट्वा । ता हि वर्षामु फुल्लन्ति । तथा दग्धारण्येषु निदाघप्लुष्टकाननेष्वधिकसुरभिं गन्धं पृथिव्या आघ्राय शिङ्घित्वा । जलकणपाताद्धि तत्र सौगन्ध्याविर्भावः । जललवमुच इति मेघविशेषणं न तु जसन्तम् ॥
पदच्छेदः
नीपंनीप (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
हरितकपिशंहरित–कपिश (२.१)
केसरैर्केसर (३.३)
अर्धरूढैर्अर्ध–रूढ (√रुह् + क्त, ३.३)
आविर्भूतप्रथममुकुलाःआविर्भूत (√आविः-भू + क्त)–प्रथम–मुकुल (२.३)
कन्दलीश्कन्दली (२.३)
जग्ध्वारण्येष्व्जग्ध्वा (√जक्ष् + क्त्वा)–अरण्य (७.३)
अधिकसुरभिंअधिक–सुरभि (२.१)
गन्धम्गन्ध (२.१)
आघ्रायआघ्राय (√आ-घ्रा + ल्यप्)
चोर्व्याः (अव्ययः)–उर्वी (६.१)
सारङ्गास्सारङ्ग (१.३)
तेतद् (१.३)
जललवमुचःजल–लव–मुच् (१.३)
सूचयिष्यन्तिसूचयिष्यन्ति (√सूचय् लृट् प्र.पु. बहु.)
मार्गम्मार्ग (२.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
नी पं दृ ष्ट्वारिपि शं के रैर्ध रू ढै
रा वि र्भूप्रमुकु लाःन्द ली श्चानु च्छम्
ग्धा ण्येष्वधिसु भिंन्ध मा घ्रा चो र्व्याः
सा ङ्गा स्तेमु चः सू यि ष्यन्ति मा र्गम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.