२२
उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ।
शुक्लापाङ्गैः सनयनजलैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥
वल्लभदेवः अस्मद्धितार्थं त्वरितमपि जिगमिषोस्तव ककुभकुसुममुगन्धौ सर्वस्मिन्नद्रौ तवाहं कालहारमुत्पश्याम्युत्प्रेक्षे । कुत इत्याह । यस्मात्प्रियमित्रैः शुक्लापाङ्गैर्मयूरैः सनयमजलैर्नेत्रोदकयुक्तैः केकाः स्वागतीकृत्य वाग्भिः स्वागतं कृत्वा प्रत्युद्गत इत्युक्तिप्रत्युक्तिवशात्कालक्षेपः । अतश्चार्थये त्वाम् । अस्मदर्थं कथमपि भवान्गन्तुं व्यवस्येद्व्यायामं कुर्यात् । अहमार्तस्त्वं चोन्नत इति भावः । सनयनजलत्वमत्र चिरेण मित्रालोकनात् ॥
पदच्छेदः
उत्पश्यामिउत्पश्यामि (√उत्-पश् लट् उ.पु. )
द्रुतमपिद्रुत (√द्रु + क्त, २.१)–अपि (अव्ययः)
सखेसखि (८.१)
मत्प्रियार्थंमद्–प्रिय–अर्थ (२.१)
यियासोःयियासु (६.१)
कालक्षेपंकालक्षेप (२.१)
ककुभसुरभौककुभ–सुरभि (७.१)
पर्वतेपर्वत (७.१)
पर्वतेपर्वत (७.१)
तेत्वद् (६.१)
शुक्लापाङ्गैःशुक्ल–अपाङ्ग (३.३)
सजलनयनैःसजल–नयन (३.३)
स्वागतीकृत्यस्वागतीकृत्य (√स्वागती-कृ + ल्यप्)
केकाःकेका (२.३)
प्रतुद्यातःप्रतुद्य (√प्र-तुद् + ल्यप्)–अतस् (अव्ययः)
कथम्कथम् (अव्ययः)
अपिअपि (अव्ययः)
भवान्भवत् (१.१)
गन्तुम्गन्तुम् (√गम् + तुमुन्)
आशुआशु (२.१)
व्यवस्येत्व्यवस्येत् (√व्यव-सा विधिलिङ् प्र.पु. एक.)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
त्प श्या मिद्रुपि खेत्प्रि या र्थंयि या सोः
का क्षे पंकुसु भौर्व तेर्व ते ते
शु क्ला पा ङ्गैः लैः स्वा ती कृत्य के काः
प्र त्यु द्या तःपि वा न्गन्तु मा शुव्य स्येत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.