२३
पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर्नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः ।
त्वय्यासन्ने फलपरिणतिश्यामजम्बूवनान्ताः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥
वल्लभदेवः त्वयि निकटे सति दशार्णाख्या जनपदा एवंविधाः संपत्स्यन्ते भविष्यन्ति । कीदृशाः । केतकैः पुष्पैः पाण्डुच्छायाः शुक्लशोभा उपवनवृतय उद्यानकण्ठ्यो येषाम् । मितत्वात्केतकानाम् । सूच्या गर्भकण्टकेन भिन्नैर्विदारितैः । तेषां ह्यन्तःस्था सूचिर्भित्त्वा विनिर्याति । तथा गृहबलिभुजां काकानां नीडारम्भैरालयक्रमैराकुलानि व्याप्तानि ग्रामचैत्यानि येषु । वर्षभयाद्धि पक्षिणः प्रावृषि नान्यत्र निर्यान्ति । चैत्यं बुद्धालयः । यदि वा महाभोगप्रज्ञाततमो वनस्पतिश्चैत्यः । तथा फलानां परिणत्या पाकेन श्यामा जम्बूवनान्ता यत्र । कपित्थानीव हि जम्बूफलानि पाकेन श्यामायन्ते । कतिपयदिनस्थायिनश्च हंसा येषु । मेघालोके मानसगमनात् ॥
पदच्छेदः
पाण्डुच्छायोपवनवृतयःपाण्डु–छाया–उपवन–वृति (१.३)
केतकैःकेतक (३.३)
सूचिभिन्नैर्सूचि–भिन्न (√भिद् + क्त, ३.३)
नीडारम्भैर्नीड–आरम्भ (३.३)
गृहबलिभुजाम्गृह–बलिभुज् (६.३)
आकुलग्रामचैत्याःआकुल–ग्राम–चैत्य (१.३)
त्वय्य्त्वद् (७.१)
आसन्नेआसन्न (√आ-सद् + क्त, ७.१)
परिणतफलश्यामजम्बूवनान्ताःपरिणत (√परि-नम् + क्त)–फल–श्याम–जम्बु–वनान्त (१.३)
सम्पत्स्यन्तेसम्पत्स्यन्ते (√सम्-पद् लृट् प्र.पु. बहु.)
कतिपयदिनस्थायिहंसाकतिपय–दिन–स्थायिन्–हंस (१.३)
दशार्णाःदशार्ण (१.३)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
पा ण्डु च्छा योवृ यः के कैः सूचि भि न्नै
र्नी डा म्भैर्गृलिभु जा माकु ग्रा चै त्याः
त्व य्या न्नेरि ति श्या म्बू ना न्ताः
सं त्स्य न्तेतिदि स्थायि हं सा शा र्णाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.