२४
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा ।
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत्तत्सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि ॥
वल्लभदेवः तेषां दशार्णानां विदिशाख्यां राजधानीं गत्वा तत्क्षणमविकलं परिपूर्णं कामुकत्वस्य फलं त्वं लब्धा प्राप्स्यसि । कुत इत्याह । यद्यस्माद्वेत्रवत्याः सरितस्तदेवंविधं पयः पास्यमि । कीदृशम् । तीरोपान्ते स्तनितेन पक्षिकूजितेन स्खलितेन वा सुभगं सुन्दरं स्वादु रुच्यं चलोर्मि स्खलितवीचि । अत एव सभ्रूभेदेन मुखेन तुल्यम् । अत एव कामित्वफललाभः । कामी हि कामिन्याः कुटिलभ्रु वक्त्रं स्वादु धयति । ऊर्मीणां भ्रुव उपमानम् । यदिति हेतुपदम् । तदिति पयोनिर्देशः । विदिशाशब्दः पृषोदरादिः । लक्षणं नाम । लब्धेति तृन्नन्तः ॥
पदच्छेदः
तेषांतद् (६.३)
दिक्षुदिश् (७.३)
प्रथितविदिशालक्षणांप्रथित (√प्रथ् + क्त)–विदिशा–लक्षण (२.१)
राजधानींराजधानी (२.१)
गत्वागत्वा (√गम् + क्त्वा)
सद्यःसद्यस् (अव्ययः)
फलम्फल (२.१)
अविकलंअविकल (२.१)
कामुकत्वस्यकामुक–त्व (६.१)
लब्धालब्धा (√लभ् लुट् प्र.पु. एक.)
तीरोपान्तस्तनितसुभगंतीर–उपान्त–स्तनित–सुभग (२.१)
पास्यसिपास्यसि (√पा लृट् म.पु. )
स्वादुस्वादु (२.१)
यस्मात्यस्मात् (अव्ययः)
सभ्रूभङ्गं (अव्ययः)–भ्रू–भङ्ग (२.१)
मुखम्मुख (२.१)
इवइव (अव्ययः)
पयोपयस् (२.१)
वेत्रवत्याश्वेत्रवती (६.१)
चलोर्मिचल–ऊर्मि (२.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
ते षां दि क्षुप्रथिविदि शाक्ष णां रा धा नीं
त्वा द्यःवि लं कामु त्वस्य ब्धा
ती रो पा न्तस्तनिसु गं पास्य सि स्वादुत्त
त्स भ्रू ङ्गंमुमि यो वेत्र त्याश्च लोर्मि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.