२५
नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतोस्त्वत्सम्पर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः ।
यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणामुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥
वल्लभदेवः तत्र विदिशायां नीचैराख्यमद्रिं विश्रामार्थं त्वमधिवसेरधितिष्ठेराश्रयेः । कीदृशम् । प्रौढपुष्पैर्विकसितकुमुमैः कदम्बैस्ततरुभिर्हेतुभिस्तव सुखदः संक्षेपात्पुलकितमिव रोमाञ्चितमिव । फुलस्य हि कदम्बकुमुमस्य रोमशोभा जायते । केचित्त्वप्रौढेति पेठुर्मुकुलितत्त्वाच्च पुलकाकारतामाहुः । यश्चाद्रिर्नागराणां विदग्धानामुद्दामानि प्रचण्डानि यौवनानि शिलावेश्मभिः प्रख्यापयति । यतः पण्यस्त्रीरतिपरिमलोद्गारिभिर्गणिकासुरतामोदमोचिभिः । विश्रामशब्दः कवीनां प्रमादजः ॥
पदच्छेदः
नीचैराख्यंनीचैराख्य (२.१)
गिरिम्गिरि (२.१)
अधिवसेस्अधिवसेः (√अधि-वस् विधिलिङ् म.पु. )
तत्रतत्र (अव्ययः)
विश्रामहेतोस्विश्राम–हेतु (५.१)
त्वत्सम्पर्कात्त्वद्–सम्पर्क (५.१)
पुलकितम्पुलकित (२.१)
इवइव (अव्ययः)
प्रौढपुष्पैःप्रौढ–पुष्प (३.३)
कदम्बैःकदम्ब (३.३)
यःयद् (१.१)
पुण्यस्त्रीरतिपरिमलोद्गारिभिर्पुण्य–स्त्री–रति–परिमल–उद्गारिन् (३.३)
नागराणाम्नागर (६.३)
उद्दामानिउद्दाम (२.३)
प्रथयतिप्रथयति (√प्रथय् लट् प्र.पु. एक.)
शिलावेश्मभिर्शिला–वेश्मन् (३.३)
यौवनानियौवन (२.३)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
नी चै रा ख्यंगिरिधि से स्तत्र वि श्रा हे तो
स्त्व त्स म्प र्कात्पुकिमि प्रौ पु ष्पैः म्बैः
यः ण्य स्त्रीतिरि लो द्गारि भि र्ना रा णा
मु द्दा मा निप्रतिशि ला वेश्म भि र्यौ नानि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.