२६
विश्रान्तः सन्व्रज वननदीतीरजातानि सिञ्चन्नुद्यानानां नवजलकणैर्यूथिकाजालकानि ।
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥
वल्लभदेवः तत्र विश्रान्तः सन्ननन्तरं त्वं यायाः । किं कुर्वन् । वननदी काननसरिन्नदीविशेषो वा । तत्कूलेभवान्युपवनानां यूथिकाजालकानि हरिणीगुल्मान्नवजलकणिरुक्षन् । पुष्पनावीमुखानां मालाकाराङ्गनामुखानां छायादानाद्धेतोः क्षणमात्रं परिचितः सुहृत् । तापापहरत्वात् । कीदृशानां मुखानाम् । कपोलयोर्यः स्वेदो घर्मस्तस्यापनयनेनोत्पुंसनेन या रुजा बाध उपमर्दस्तया क्लान्तकर्णोत्पलानां म्लानश्रवणकुवलयानाम् । रुजाचोत्पलानामेव । भिदादित्वादङ् । पुष्पाणि लुनन्तीति पुष्पलाव्यः । कर्मण्यण् ॥
पदच्छेदः
विश्रान्तःविश्रान्त (√वि-श्रम् + क्त, १.१)
सन्सत् (√अस् + शतृ, १.१)
व्रजव्रज (√व्रज् लोट् म.पु. )
वननदीतीरजानांवन–नदी–तीर–ज (६.३)
निषिञ्चन्नुद्यानानांनिषिञ्चत् (√नि-सिच् + शतृ, १.१)–उद्यान (६.३)
नवजलकणैर्नव–जल–कण (३.३)
यूथिकाजालकानियूथिका–जालक (२.३)
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानांगण्ड–स्वेद–अपनयन–रुजा–क्लान्त (√क्लम् + क्त)–कर्ण–उत्पल (६.३)
छायादानात्छाया–दान (५.१)
क्षणपरिचितःक्षण–परिचित (√परि-चि + क्त, १.१)
पुष्पलावीमुखानाम्पुष्पलावी–मुख (६.३)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
वि श्रा न्तःन्व्र दी ती जा तानि सिञ्च
न्नु द्या ना नां णै र्यूथि का जा कानि
ण्ड स्वे दारु जा क्लान्त र्णोत्प ला नां
छा या दा नात्क्षरिचि तः पुष्प ला वीमु खा नाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.