२८
वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः ।
निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥
वल्लभदेवः निर्विन्ध्याख्या नदी । तस्याः पथि प्रवाहे संनिपत्य संश्लिष्य रसाभ्यन्तरो भव पानीयगर्भः स्याः । अपः पिबेरित्यर्थः । अथ च रमाभ्यन्तरः शृङ्गारवासितो भवेरिति वक्रोक्तिः । तां कामयेथा इत्यर्थः । कामिनीसाधर्म्यमाह । कीदृश्यास्तस्याः । वीचिक्षोभण कल्लोलकम्पेन स्तनिता कोकूयमाना या विहगश्रेणी पक्षिमाला सैव काञ्चीगुणो रशनादाम यस्याः । तथाभ्यादौ स्खलितेन परिलुठितेन सुभगं सुन्दरं संसर्पन्त्या वहन्त्याः । तथा दर्शितावर्त एव नाभिर्यस्या तस्याः । आह्वानाभावे कथं मम रागिता युक्तेत्याह । नारीणां विभ्रमो विलास एव यस्मात्प्रियेषु प्रणयवचनं प्रार्थनावचः प्रीतिवाक्यं वा । यदालोकनवशादानानां विभ्रमाः प्रवर्तन्ते तैरेवासावभ्यर्थितो भवेत् । साक्षात्तु तासां प्रार्थना लाघवकारिणी । अत्र चावर्तनाभिदर्शनादिको विलासः प्रवृत्त एव ॥
पदच्छेदः
वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाःवीचि–क्षोभ–स्तनित–विहग–श्रेणि–काञ्ची–गुण (६.१)
संसर्पन्त्याःसंसर्पत् (√सम्-सृप् + शतृ, ६.१)
स्खलितसुभगंस्खलित (√स्खल् + क्त)–सुभग (२.१)
दर्शितावर्तनाभःदर्शित (√दर्शय् + क्त)–आवर्तन–आभ (१.१)
निर्विन्ध्यायाःनिर्विन्ध्या (६.१)
पथिपथिन् (७.१)
भवभव (√भू लोट् म.पु. )
रसाभ्यन्तरःरस–अभ्यन्तर (१.१)
संनिपत्यसंनिपत्य (√संनि-पत् + ल्यप्)
स्त्रीणाम्स्त्री (६.३)
आद्यंआद्य (१.१)
प्रणयवचनंप्रणय–वचन (१.१)
विभ्रमोविभ्रम (१.१)
हिहि (अव्ययः)
प्रियेषुप्रिय (७.३)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
वी चि क्षोस्तनिवि श्रेणि का ञ्चीगु णा याः
सं र्प न्त्याःस्खलिसु गंर्शि तार्त ना भेः
नि र्वि न्ध्या याःथि सा भ्यन्त रः संनित्य
स्त्री णा मा द्यंप्र नं विभ्र मो हिप्रि येषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.