२९
वेणीभूतप्रतनुसलिलां तामतीतस्य सिन्धुं पाण्डुच्छायां तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः ।
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्तीं कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥
वल्लभदेवः हे सुभग तां निर्विध्यां कार्श्यं कर्तृ येन विधिना प्रकारेण प्रकृतिस्थं त्यजति स विधिर्भवतैव संपाद्यः । वर्षेस्तत्रेवेत्यर्थः । एवं हि तोयपूरागमान्नदी कृशा न भवति । कस्मात्कार्श्यत्यागाय तत्र वर्षामीत्याह । यतसतवातीतस्य विरहावस्थया सौभाग्यं वाज्जभ्यं व्यञ्जयन्तीं कथयन्तीम् । तथा हि त्वद्विरहेण वेणीभूतं प्रतनुत्वात्सलिलं यस्याः । वेणी केशपाशः । तथा तटरुहेभ्यस्तीरजेभ्यस्तरुभ्यो भ्रष्टैर्जीर्णपर्णैःर्जर्जरकिसलयैः पाण्डुरीभुताम् । प्रियविरहे हि नारी तनुः पाण्डुश्च भवति ॥
पदच्छेदः
वेणीभूतप्रतनुसलिलावेणी–भूत (√भू + क्त)–प्रतनु–सलिल (१.१)
ताम्तद् (२.१)
अतीतस्यअतीत (√अति-इ + क्त, ६.१)
सिन्धुःसिन्धु (१.१)
पाण्डुच्छायापाण्डु–छाया (१.१)
तटरुहतरुभ्रंशिभिर्जीर्णपर्णैःतट–रुह–तरु–भ्रंशिन् (३.३)–जीर्ण (√जृ + क्त)–पर्ण (३.३)
सौभाग्यंसौभाग्य (२.१)
तेत्वद् (६.१)
सुभगसुभग (८.१)
विरहावस्थयाविरह–अवस्था (३.१)
व्यञ्जयन्तीव्यञ्जयत् (√वि-अञ्जय् + शतृ, १.१)
कार्श्यंकार्श्य (२.१)
येनयद् (३.१)
त्यजतित्यजति (√त्यज् लट् प्र.पु. एक.)
विधिनाविधि (३.१)
तद् (१.१)
त्वयैवोपपाद्यःत्वद् (३.१)–एव (अव्ययः)–उपपाद्य (√उप-पादय् + कृत्, १.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
वे णी भूप्रनुलि लां ता तीस्य सि न्धुं
पा ण्डु च्छा यांरु रु भ्रंशि भि र्जीर्ण र्णैः
सौ भा ग्यं तेसुवि हास्थ या व्यञ्ज न्तीं
का र्श्यं येत्यतिविधि नात्व यै वो पा द्यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.