३०
प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् ।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥
वल्लभदेवः ततोऽवन्तीनाम जनपदानासाद्य पूर्वोद्दिष्टां पूर्वोक्तां नगरीमुज्जयिनीमनुसर गच्छ । कीदृशांस्तान् । उदयनकथा बृहत्कथावत्सराजवृत्तान्तः । तत्र कोविदाः प्रवीणा ग्रामवृद्धाश्चिरन्तना येषु । तस्य तत्र वर्णनीयत्वात् । पुरीं कीदृशीम् । श्रिया ऋद्ध्या विशालामनल्पां विविधाश्च शाला यस्यास्ताम् । यां चोत्पेक्षामहे । दिव एकं भास्वरं खपदमिव । स्वर्गैकदेशस्य कस्तवागम इत्याह । स्वर्गिणां पुण्यवतं सुचरितफले सुकृतफले उपभुक्तत्वादल्पीभूते किंचिच्छिष्टे सति गां गतानां भुवं प्राप्तानां पुण्यशेषेणाहतं भुवमानीतं मूर्तिमत्स्वर्गखण्डमिवेत्यर्थः । अवन्तीनां निवासो जनपदोऽवन्तयः ॥
पदच्छेदः
प्राप्यावन्तीन्प्राप्य (√प्र-आप् + ल्यप्)–अवन्ति (२.३)
उदयनकथाकोविदग्रामवृद्धान्उदयन–कथा–कोविद–ग्राम–वृद्ध (२.३)
पूर्वोद्दिष्टाम्पूर्व–उद्दिष्ट (√उत्-दिश् + क्त, २.१)
उपसरउपसर (√उप-सृ लोट् म.पु. )
पुरींपुरी (२.१)
श्रीविशालांश्री–विशाल (२.१)
विशालाम्विशाला (२.१)
स्वल्पीभूतेस्वल्पीभूत (√स्वल्पी-भू + क्त, ७.१)
सुचरितफलेसु (अव्ययः)–चरित–फल (७.१)
स्वर्गिणांस्वर्गिन् (६.३)
गांगो (२.१)
गतानांगत (√गम् + क्त, ६.३)
शेषैःशेष (३.३)
पुण्यैर्पुण्य (३.३)
हृतम्हृत (√हृ + क्त, १.१)
इवइव (अव्ययः)
दिवःदिव् (५.१)
कान्तिमत्कान्तिमत् (१.१)
खण्डम्खण्ड (१.१)
एकम्एक (१.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
प्रा प्या न्तीनु था कोवि ग्रा वृ द्धा
न्पू र्वो द्दि ष्टानुपु रीं श्रीवि शा लांवि शा लाम्
स्व ल्पी भू तेसुरि ले स्वर्गि णां गां ता नां
शे षैः पु ण्यैर्हृमिदि वः कान्ति त्खण्ड मे कम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.