प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् ।
स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥
वल्लभदेवः ततोऽसौ गुह्यकस्तस्मै मेघाय स्वागतं व्याजहार । शोभनमागतं तेऽत्स्वित्यब्रवीत् । प्रीतिप्रमुखाणि स्नेहपूर्वकाणि वचनानि यत्र स्वागते तद्यथा । भद्रं स्वस्थोऽसि । कुशलं ते सर्वत्र । विश्रम्यताम् । पवित्रीक्रियतामिदं स्थानमिति । कीदृशोऽसौ । जीमूतेन मेघेन स्वकुशलमयीमात्मश्रेयोरूपां प्रवृत्तिं वार्तां हारयिष्यन्नाययिष्यन् । यतोऽसौ दयिताया जीवितालम्बनं प्राणसंधारणमर्थयते। भर्तृकल्याणाधिगमाद्धि प्रियतमानां समाश्वामो जायते । कीदृशाय तस्मै । सरसैः कुटजकुममैः कल्पितार्घाय विहितपूजाय । अत एवासौ प्रीतः । आषाढस्य प्रशदिवस इति' य एवार्थ उक्तः स एव प्रत्यामने नभसीत्यनूदितः । नभाः श्रावणः । यदि वा जलदनिचितत्वात्प्रत्यासन्ने निकटवर्तिनीव नभसि गगन इति व्याख्येयमिति केचित् । गगम एव जीमूतो वार्तां नयति। स हि प्रीतिं कुर्वन्नाययति । प्रीत्या हारयिष्यन्निति णिजुत्पत्तिः । ततो मृद शेषे चेति' चकारात्क्रियार्थायामुपपदे लृट् । प्रवृत्तिं हारयितुं स्वागतं व्याजहारेत्यर्थः । जीमूतेनेति ह्र्यक्रोरन्यतरस्यामिति' यक्षे यथाप्राप्तं कर्तृत्वम् । तस्मा इति क्रियया यमभिप्रति म संप्रदानमिति' संप्रदानवचनम् ॥
पदच्छेदः
प्रत्यासन्नेप्रत्यासन्न (√प्रत्या-सद् + क्त, ७.१)
नभसिनभस् (७.१)
दयिताजीवितालम्बनार्थीदयिता–जीवित–आलम्बन–अर्थिन् (१.१)
जीमूतेनजीमूत (३.१)
स्वकुशलमयींस्व–कुशल–मय (२.१)
हारयिष्यन्हारयिष्यत् (√हारय् + कृत्, १.१)
प्रवृत्तिम्प्रवृत्ति (२.१)
तद् (१.१)
प्रत्यग्रैःप्रत्यग्र (३.३)
कुटजकुसुमैःकुटज–कुसुम (३.३)
कल्पितार्घायकल्पित (√कल्पय् + क्त)–अर्घ (४.१)
तस्मैतद् (४.१)
प्रीतःप्रीत (√प्री + क्त, १.१)
स्वागतंस्वागत (२.१)
व्याजहारव्याजहार (√व्या-हृ लिट् प्र.पु. एक.)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
प्र त्या न्नेसियि ता जीवि ताम्ब ना र्थी
जी मू तेस्वकु यीं हा यि ष्यन्प्र वृ त्तिम्
प्र त्य ग्रैःकुकुसु मैःल्पि ता र्घा स्मै
प्री तः प्री तिप्रमु नं स्वा तं व्या हा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.