३१
दीर्घीकुर्वन्पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥
वल्लभदेवः यत्रोज्जयिन्यां कामिनीनां सिप्रासरिदनिलः सुरतग्लानिं मोहनखेदं हरत्यपास्यति । कीदृशः । सारसानां लक्ष्मणानां मदेन मधुरं स्फुटं च कूजितं दी|कुर्वन्प्रमारयन् । तथा प्रभातेषु स्फुटितानि विकसितानि यानि कमलानि तेषामामोदः सौरभं तस्य मैत्र्या संपर्केण कषायः कषायरसयुक्तः । भावित इत्यर्थः । अङ्गानुकूलो गात्रसुखकारी । शीतलसुरभित्वात् । क इव हरतीत्याह । प्रार्थनया चाटुकारः प्रियकृत्प्रेयान्यथा कामिन्या अङ्गग्लानिमपहरति । सिप्राख्योज्जयिन्यां नदी ॥
पदच्छेदः
दीर्घीकुर्वन्दीर्घीकुर्वत् (√दीर्घी-कृ + शतृ, १.१)
पटुपटु (२.१)
मदकलंमद–कल (२.१)
कूजितंकूजित (२.१)
सारसानांसारस (६.३)
प्रत्यूषेषुप्रत्यूष (७.३)
स्फुटितकमलामोदमैत्रीकषायःस्फुटित (√स्फुट् + क्त)–कमल–आमोद–मैत्री–कषाय (१.१)
यत्रयत्र (अव्ययः)
स्त्रीणांस्त्री (६.३)
हरतिहरति (√हृ लट् प्र.पु. एक.)
सुरतग्लानिम्सुरत–ग्लानि (२.१)
अङ्गानुकूलःअङ्ग–अनुकूल (१.१)
शिप्रावातःशिप्रा–वात (१.१)
प्रियतमप्रियतम (१.१)
इवइव (अव्ययः)
प्रार्थनाचाटुकारःप्रार्थना–चाटु–कार (१.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
दी र्घी कु र्वन्पटु लं कूजि तं सा सा नां
प्र त्यू षे षुस्फुटि ला मो मै त्री षा यः
त्र स्त्री णांतिसु ग्लानि ङ्गानु कू लः
सि प्रा वा तःप्रि प्रार्थ ना चाटु का रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.