३४
अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदभ्येति भानुः ।
कुर्वन्संध्याबलिपटहतां शूलिनः श्लाघनीयामामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥
वल्लभदेवः हे जनधरान्यस्मिन्नपि कालेऽवसरे महाकालाभिधानं भगवन्तमासाद्य तावत्त्वयासितव्यं यावदर्कश्चक्षुर्गोचरतां चक्षुर्दृश्यत्वमुपैति । प्रातःसंध्यासमयपर्यन्तमित्यर्थः । किमर्थमित्याह । शूलिनो महाकालस्य संध्याबल्यर्थं पटहतां तूर्यत्वं श्लाघनीयां विदधत्त्वमामन्द्राणां सर्वमधुराणां गर्जितानां परिपूर्णं फलं प्राप्स्यसि । देवानां हि बलिकाले ढक्कापटहादिवाद्यैर्भाव्यम् । तत्र तु भवद्ध्वनितान्येव पटहीभविष्यन्तीति तत्साफल्यम् । स्थातव्यं त इति कृत्यानां कर्तरि वा ॥
पदच्छेदः
अप्यन्यस्मिञ्जलधरअपि (अव्ययः)–अन्य (७.१)–जलधर (८.१)
महाकालम्महत्–काल (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
कालेकाल (७.१)
स्थातव्यंस्थातव्य (√स्था + कृत्, १.१)
तेत्वद् (६.१)
नयनविषयंनयनविषय (२.१)
यावद्यावत् (अव्ययः)
अत्येतिअत्येति (√अति-इ लट् प्र.पु. एक.)
भानुःभानु (१.१)
कुर्वन्कुर्वत् (√कृ + शतृ, १.१)
संध्याबलिपटहतांसंध्याबलि–पटहता (२.१)
शूलिनःशूलिन् (६.१)
श्लाघनीयाम्श्लाघनीय (√श्लाघ् + अनीयर्, २.१)
आमन्द्राणांआमन्द्र (६.३)
फलम्फल (२.१)
अविकलंअविकल (२.१)
लप्स्यसेलप्स्यसे (√लभ् लृट् म.पु. )
गर्जितानाम्गर्जित (√गर्ज् + क्त, ६.३)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
प्य न्य स्मिञ्ज हा का मा साद्य का ले
स्था व्यं तेवि यं या भ्येति भा नुः
कु र्व न्सं ध्यालि तां शूलि नः श्ला नी या
मा न्द्रा णांवि लंप्स्य सेर्जि ता नाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.