३५
पादन्यासक्वणितरशनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ।
वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दूनामोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥
वल्लभदेवः तत्र महाकालधाम्नि वेश्या भगवद्गणिकास्त्वत्तो भवत्सकाशान्नखपदसुखकरान्वर्षाग्रबिन्दून्प्रथमजलकणानासाद्य प्रीतिवशात्त्वयि भ्रमरपालीपृथुलान्कटाक्षानाक्षेप्स्यन्ति । कीदृश्यस्ताः । पादन्यासेन क्वणितरशना रणन्मेखलाः । तथा विलासवलितैर्बालव्यजनैः खिद्यमानकरा इति सौकुमार्योक्तिः । ता हि देवं वीजयन्त्यः सेवन्ते । कोदृशैस्तैः । रत्नच्छायया खचिताः प्रकटीकृता वलय उदरलेखा यैः । तासां हि वासोयुगाच्छादितानां चामरमणिभासा मध्यवलयः प्रकटीभवन्ति ॥
पदच्छेदः
पादन्यासैःपाद–न्यास (३.३)
क्वणितरशनास्क्वणित (√क्वण् + क्त)–रशना (१.३)
तत्रतत्र (अव्ययः)
लीलावधूतैलीला–अवधूत (√अव-धू + क्त, ३.३)
रत्नच्छायाखचितवलिभिश्रत्न–छाया–खचित (√खच् + क्त)–वलि (३.३)
चामरैःचामर (३.३)
क्लान्तहस्ताःक्लान्त (√क्लम् + क्त)–हस्त (१.३)
वेश्यास्वेश्या (१.३)
त्वत्तोत्वद् (५.१)
नखपदसुखान्नख–पद–सुख (२.३)
प्राप्यप्राप्य (√प्र-आप् + ल्यप्)
वर्षाग्रबिन्दून्वर्ष–अग्र–बिन्दु (२.३)
आमोक्ष्यन्तेआमोक्ष्यन्ते (√आ-मुच् लृट् प्र.पु. बहु.)
त्वयित्वद् (७.१)
मधुकरश्रेणिदीर्घान्मधुकर–श्रेणि–दीर्घ (२.३)
कटाक्षान्कटाक्ष (२.३)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
पा न्याक्वणि ना स्तत्र ली ला धू तै
त्न च्छा याचिलि भि श्चा रैः क्लान्त स्ताः
वे श्या स्त्व त्तोसु खा न्प्राप्य र्षाग्र बि न्दू
ना मो क्ष्य न्तित्वयिधु श्रेणि दी र्घान्क टा क्षान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.