३६
पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।
नृत्तारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥
वल्लभदेवः पश्चादनन्तरं तत्र पशुपतेः शंभोर्नृत्तारम्भ आर्द्रगजाजिनेच्छां रुधिरसरसगजचर्माभिलाषं हर नाशय । तव तन्निभत्वात् । तथा हि कीदृशस्त्वम् । उच्चैरुद्गतं भुजतरुवनं दोर्द्रुमषण्डं मण्डलेन तिर्यगभिलीनः संश्रितः । तथाभिनवजपापुष्पवल्लोहितं सांध्यं तेजो बिभ्रत् । एवं च नवगजाजिनकाङ्क्षाहरणम् । भवान्या गोर्या दृष्टभक्तिरालोकितेत्थं विधमेवनः । कथम् । विद्युदुन्मेषाभावाच्छान्तोद्वेगानि निवृत्तखेदान्यत एव स्तिमितानि नयनानि यत्र दर्शने ॥
पदच्छेदः
पश्चाद्पश्चात् (अव्ययः)
उच्चैर्भुजतरुवनंउच्चैस् (अव्ययः)–भुज–तरु–वन (२.१)
मण्डलेनाभिलीनःमण्डल (३.१)–अभिलीन (√अभि-ली + क्त, १.१)
सांध्यंसांध्य (२.१)
तेजःतेजस् (२.१)
प्रतिनवजपापुष्परक्तंप्रतिनव–जपा–पुष्प–रक्त (२.१)
दधानःदधान (√धा + शानच्, १.१)
नृत्तारम्भेनृत्त–आरम्भ (७.१)
हरहर (√हृ लोट् म.पु. )
पशुपतेर्पशुपति (६.१)
आर्द्रनागाजिनेच्छांआर्द्र–नाग–अजिन–इच्छा (२.१)
शान्तोद्वेगस्तिमितनयनंशान्त (√शम् + क्त)–उद्वेग–स्तिमित–नयन (२.१)
दृष्टभक्तिर्दृष्ट (√दृश् + क्त)–भक्ति (१.१)
भवान्याभवानी (३.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
श्चा दु च्चैर्भुरु नंण्ड ले नाभि ली नः
सां ध्यं ते जःप्रति पा पुष्प क्तं धा नः
नृ त्ता म्भेशु ते रार्द्र ना गाजि ने च्छां
शा न्तो द्वेस्तिमि नं दृष्ट क्तिर्भ वा न्या
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.