३७
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ।
सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वीं तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥
वल्लभदेवः तत्रोज्जयिन्यामभिसारिकाणां सौदामिन्या तडिता राजमार्गं दर्शय प्रकाशय। यतो नक्तं रात्रौ प्रियतमवसतिं व्रजन्तीनाम् । अत एवातिघनत्वात्सूच्या भेद्यस्तमोभी रद्धालोकेऽवष्टब्धप्रकाशे पथि । कीदृश्या तया । कनकनिकषवत्सुवर्णघर्षणवत्स्निग्धयारूक्षया । एवं च कृत्वा तोयोत्सर्गार्थं स्तनितेन गर्जितडम्बरेण मुखरः सशब्दो मा भूः । यतस्ता योषिद्भावात्कातराम्बग्नवः[अस्पष्टं मुद्रणम्] ॥
पदच्छेदः
गच्छन्तीनांगच्छत् (√गम् + शतृ, ६.३)
रमणवसतिंरमण–वसति (२.१)
योषितांयोषित् (६.३)
तत्रतत्र (अव्ययः)
नक्तंनक्त (२.१)
रुद्धालोकेरुद्ध (√रुध् + क्त)–आलोक (७.१)
नरपतिपथेनरपति–पथ (७.१)
सूचिभेद्यैस्सूचि–भेद्य (√भिद् + कृत्, ३.३)
तमोभिःतमस् (३.३)
सौदामन्यासौदामनी (३.१)
कनकनिकषस्निग्धयाकनक–निकष–स्निग्ध (३.१)
दर्शयोर्वींदर्शय (√दर्शय् लोट् म.पु. )–उर्वी (२.१)
तोयोत्सर्गस्तनितमुखरोतोय–उत्सर्ग–स्तनित–मुखर (१.१)
मामा (अव्ययः)
(अव्ययः)
भूर्भूः (√भू म.पु. )
विक्लवास्ताःविक्लव (१.३)–तद् (१.३)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
च्छ न्ती नां तिं योषि तांत्र क्तं
रु द्धा लो केति थे सूचि भे द्यैस्त मो भिः
सौ दा मि न्यानि स्निग्ध यार्श यो र्वीं
तो यो त्स र्गस्तनिमु रो मास्म भू र्विक्ल वा स्ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.