३८
तां कस्यां चिद्भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः ।
दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥
वल्लभदेवः तां पूर्वोक्तां रात्रिं कस्यामपि भवनवलभौ गृहोपरिपुरे नीत्वातिवाह्य ततः मूर्योदये भूयोऽपि भवान्मार्गमवशिष्टं वाहयेदुल्लङ्घयेत् । यस्मान्मित्राणां यैरर्थकृत्यं प्रयोजनमभ्युपेतमूरीकृतं शिरसाङ्गीकृतं ते न खलु मन्दायन्ते नैवालसा भवन्ति । कीदृश्यां वलभौ । सुप्ताः पारावताः कपोतविशेषाः यत्र । ते हि कण्ठरुतश्रवणार्थं नागरकैर्गृहे धार्यन्ते । त्वं कीदृशः । चिरं विलसनात्स्विन्नं श्रान्तं विद्युदेव कलत्रं भार्या यस्य सः । अत एव वलभौ विश्रमणम् । अमन्दो मन्दो भवति मन्दायते । भृशादित्वात्क्यङ् । अर्थश्चासौ कृत्यमर्थकृत्यम् । अर्थः प्रयोजनम् । अवश्यकार्यत्वाच्चास्य कृत्यत्वम् ॥
पदच्छेदः
तांतद् (२.१)
कस्यांचिद्कश्चित् (७.१)
भवनवलभौभवन–वलभि (७.१)
सुप्तपारावतायांसुप्त (√स्वप् + क्त)–पारावत (७.१)
नीत्वानीत्वा (√नी + क्त्वा)
रात्रिंरात्रि (२.१)
चिरविलसनात्चिर–विलसन (५.१)
खिन्नविद्युत्कलत्रःखिन्न (√खिद् + क्त)–विद्युत्–कलत्र (१.१)
दृष्टेदृष्ट (√दृश् + क्त, ७.१)
सूर्येसूर्य (७.१)
पुनरपिपुनर् (अव्ययः)–अपि (अव्ययः)
भवान्भवत् (१.१)
वाहयेदध्वशेषंवाहयेत् (√वाहय् विधिलिङ् प्र.पु. एक.)–अध्वन्–शेष (२.१)
मन्दायन्तेमन्दायन्ते (√मन्दाय् लट् प्र.पु. बहु.)
(अव्ययः)
खलुखलु (अव्ययः)
सुहृदाम्सुहृद् (६.३)
अभ्युपेतार्थकृत्याःअभ्युपेत (√अभ्युप-इ + क्त, १.१)–अर्थ–कृत्य (१.३)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
तां स्यां चिद्भ भौ सुप्त पा रा ता यां
नी त्वा रा त्रिंचिवि ना त्खिन्न वि द्युत्क त्रः
दृ ष्टे सू र्येपुपि वा न्वा येध्व शे षं
न्दा न्तेलुसुहृ दाभ्यु पे तार्थ कृ त्याः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.