३९
तस्मिन्काले नयनसलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ।
प्रालेयास्रं कमलवदनात्सोऽपि हर्तुं नलिन्याः प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥
वल्लभदेवः अतः कारणाद्भानोः सूर्यस्य वर्त्म मार्गं त्यज । माच्छादको भूरित्यर्थः । यतस्तस्मिकाले प्रभाताख्ये खण्डितानां विप्रलब्धानामङ्गनानां प्रियैरागत्यास्रु नेत्रजलं शमनीयम् । यदि त्वमस्य पटनिभो भवसि तदालोकनपाटवाभावान्निशाशङ्कया नागमनं स्यादिति वर्त्म भानोस्त्यज । किं च सोऽपि भानुः खण्डितायाः कमलिन्याः प्रियायाः कमालादेव वदनात्प्रालेयमवश्यायमेवास्रु हर्तुं शमयितुं प्रत्यावृत्तः प्रत्यागतः । तेनापि पद्मिन्याः प्रार्थना कार्येत्यर्थः । अतस्त्वयि कररुधि रश्मिरोधकेऽनल्पाभ्यसूयो भवेत् । त्वयि महान्तं रोषं भावयेत् । यस्य हि प्रियां प्रार्थयमानस्य यः करमवष्टम्भीयात्तस्य तत्र मन्युर्भवति । निद्राकषायमुकुलीकृतेत्यादि' ॥
पदच्छेदः
तस्मिन्तद् (७.१)
कालेकाल (७.१)
नयनसलिलंनयन–सलिल (१.१)
योषितांयोषित् (६.३)
खण्डितानांखण्डित (√खण्डय् + क्त, ६.३)
शान्तिंशान्ति (२.१)
नेयंनेय (√नी + कृत्, १.१)
प्रणयिभिर्प्रणयिन् (३.३)
अतोअतस् (अव्ययः)
वर्त्मवर्त्मन् (२.१)
भानोस्भानु (६.१)
त्यजाशुत्यज (√त्यज् लोट् म.पु. )–आशु (अव्ययः)
प्रालेयास्त्रंप्रालेय–अस्त्र (२.१)
कमलवदनात्कमल–वदन (५.१)
सोतद् (१.१)
ऽपिअपि (अव्ययः)
हर्तुंहर्तुम् (√हृ + तुमुन्)
नलिन्याःनलिनी (६.१)
प्रत्यावृत्तस्त्वयिप्रत्यावृत्त (√प्रत्या-वृत् + क्त, १.१)–त्वद् (७.१)
कररुधिकररुध् (७.१)
स्याद्स्यात् (√अस् विधिलिङ् प्र.पु. एक.)
अनल्पाभ्यसूयःअनल्प–अभ्यसूया (१.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
स्मि न्का लेलि लं योषि तांण्डि ता नां
शा न्तिं ने यंप्रयिभि तोर्त्म भा नोस्त्य जाशु
प्रा ले या स्रं ना त्सोऽपि र्तुं लि न्याः
प्र त्या वृ त्तस्त्वयिरु धि स्या ल्पाभ्य सू यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.