४०
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।
तस्मात्तस्याः कुमुदविशदान्यर्हसि त्वं न धैर्यान्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥
वल्लभदेवः गम्भीराख्यायाः सरितः पयसि प्रसन्ने तव स्वभावसुन्दरच्छायारूपोऽप्यात्मा प्रतिबिम्बरूपश्चेतसीव प्रवेशं लप्स्यते । तस्मात्कारणादस्या नद्याः कैरवसितानि चपलशफरोद्वर्तनप्रेक्षितानि कम्पमानमीनम्फुरितावलोकितानि धाैर्याद्गाम्भीर्यान्मोघीकर्तुं वन्ध्ययितुं नार्हसि । ततो मा गम इत्यर्थः । गमनाद्धि तानि निष्फलानि स्युः । यश्च नागरः स प्रेयस्यां रागेण वीक्षमाणायां विलम्बते । स हि तस्याश्चेतसि प्रविष्टः ॥
पदच्छेदः
गम्भीरायाःगम्भीर (६.१)
पयसिपयस् (७.१)
सरितश्सरित् (६.१)
चेतसीवचेतस् (७.१)–इव (अव्ययः)
प्रसन्नेप्रसन्न (√प्र-सद् + क्त, ७.१)
छायात्मापिछाया–आत्मन् (१.१)–अपि (अव्ययः)
प्रकृतिसुभगोप्रकृति–सुभग (१.१)
लप्स्यतेलप्स्यते (√लभ् लृट् प्र.पु. एक.)
तेत्वद् (६.१)
प्रवेशम्प्रवेश (२.१)
तस्माद्तस्मात् (अव्ययः)
अस्याःइदम् (६.१)
कुमुदविशदान्य्कुमुद–विशद (२.३)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )
त्वंत्वद् (१.१)
(अव्ययः)
धैर्यान्धैर्य (५.१)
मोघीकर्तुंमोघीकर्तुम् (√मोघी-कृ + तुमुन्)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
म्भी रा याःसिरि श्चे सीप्र न्ने
छा या त्मा पिप्रकृतिसु गोप्स्य ते तेप्र वे शम्
स्मा त्त स्याःकुमुवि दा न्यर्ह सि त्वं धै र्या
न्मो घी र्तुंटु रो द्वर्त प्रेक्षि तानि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.