धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे कामार्ता हि प्रणयकृपणाश्चेतनाचेतनेषु ॥
वल्लभदेवः गुह्यकः पुण्यजन औत्सुक्यादुत्कण्ठावशादित्येवमपरिगणयन्नविमृशंस्तं मेघं ययाचे प्रार्थयत । किमित्याह । क्व मेघः क्व संदेशार्था वार्त्तावस्तूनि । मेघस्तावद्धूमज्योतिःसलिलमरतां समुदायः । धूमादिमयान्यचेतनानि ह्यभ्राणि । संदेशार्थाः पटुकरणैश्चतुरेन्द्रियैः प्राणिभिर्मानवैः प्रापणीया नेतुं शक्याः । न तु निर्बुद्धिभिः । कथं तर्ह्येतदसौ न विमृष्टवानित्याह । यस्माद्ये कामार्ता मदनवागुरापीडितास्ते चेतनाचेतनेषु सिंहपादपादिषु प्रणयकृपणाः प्रार्थनादीना भवन्ति । न हि ते विषयमविषयं वा विवेक्तुं समर्था इति भङ्ग्या कविः स्वदोषं निरस्यति ॥
पदच्छेदः
धूमज्योतिःसलिलमरुतांधूम–ज्योतिस्–सलिल–मरुत् (६.३)
संनिपातःसंनिपात (१.१)
क्वक्व (अव्ययः)
मेघःमेघ (१.१)
संदेशार्थाःसंदेश–अर्थ (१.३)
क्वक्व (अव्ययः)
पटुकरणैःपटु–करण (३.३)
प्राणिभिःप्राणिन् (३.३)
प्रापणीयाःप्रापणीय (√प्र-आप् + अनीयर्, १.३)
इत्यौत्सुक्यादपरिगणयन्इति (अव्ययः)–औत्सुक्य (५.१)–अपरिगणयत् (१.१)
गुह्यकस्तंगुह्यक (१.१)–तद् (२.१)
ययाचेययाचे (√याच् लिट् प्र.पु. एक.)
कामार्ताकाम–आर्त (१.३)
हिहि (अव्ययः)
प्रकृतिकृपणाश्चेतनाचेतनेषुप्रकृति–कृपण (१.३)–चेतन–अचेतन (७.३)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
धू ज्यो तिःलिरु तां संनि पा तःक्व मे घः
सं दे शा र्थाःक्वटु णैः प्राणि भिः प्रा णी याः
त्यौ त्सु क्यारि न्गुह्य स्तं या चे
का मा र्ता हिप्रकृ णा श्चे ना चे नेषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.