४१
तस्याः किं चित्करधृतमिव प्राप्तवानीरशाखं हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादः पुलिनजघनां को विहातुं समर्थः ॥
वल्लभदेवः तस्या गम्भीराया नीलं मलिनमेव वसनमम्बरं पानवशाद्धृत्वापास्य तव लम्बमानस्य जलभरमन्थरत्वात्तचेव तिष्ठतः प्रस्थानं कथमपि भावि प्रयाणं कथमपि भविष्यति । यम्माद्यो ज्ञातास्वादोऽमुभूतरसः स पुनिमजघनां तीरपृथुनितम्बां युवतिं कस्त्यक्तुं समर्थः । त्वं च पानी यपानाद्विदितास्वादः । सापि पुलिनमेव जघनं यस्याः सा पुलिनजघना । कीदृशं सलिलवसनम् । प्राप्तं लब्धवद्वानीरशाखा वेतसीलताः । वानीरशाखाश्लिष्टमित्यर्थः । प्राप्तापन्ने च दितीयया । यदि वा प्राप्ता वानीरशाखा येनेति बहुव्रीहिः । अतश्चोत्प्रेक्षते । करधृतमिव हस्तावष्टब्धं यथा । अंशुकं हरतो हि कामिनो नार्यः कराभ्यां रुन्धन्ति । नीलं हरितम् । ग्रीष्मेऽल्पत्वात् । अतश्च हरणान्मुक्तमुत्सृष्टं रोधस्तीरमेव नितम्बो येन । यदप्यम्बरं ह्रियते तन्मुक्तनितम्बं भवति । भविष्यतीति भावि॥
पदच्छेदः
तस्याःतद् (६.१)
किंचित्कश्चित् (२.१)
करधृतम्कर–धृत (√धृ + क्त, २.१)
इवइव (अव्ययः)
प्राप्तवानीरशाखंप्राप्त (√प्र-आप् + क्त)–वानीर–शाखा (२.१)
हृत्वाहृत्वा (√हृ + क्त्वा)
नीलंनील (२.१)
सलिलवसनंसलिल–वसन (२.१)
मुक्तरोधोनितम्बम्मुक्त (√मुच् + क्त)–रोधस्–नितम्ब (२.१)
प्रस्थानंप्रस्थान (१.१)
तेत्वद् (६.१)
कथमपिकथम् (अव्ययः)–अपि (अव्ययः)
सखेसखि (८.१)
लम्बमानस्यलम्बमान (√लम्ब् + शानच्, ६.१)
भाविभाविन् (१.१)
ज्ञातास्वादोज्ञात (√ज्ञा + क्त)–आस्वाद (१.१)
विवृतजघनांविवृत (√वि-वृ + क्त)–जघन (२.१)
को (१.१)
विहातुंविहातुम् (√वि-हा + तुमुन्)
समर्थःसमर्थ (१.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
स्याः किं चित्कधृमि प्राप्त वा नी शा खं
हृ त्वा नी लंलि नं मुक्त रो धोनि म्बम्
प्र स्था नं तेपि खेम्ब मास्य भावि
ज्ञा ता स्वा दःपुलि नां कोवि हा तुं र्थः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.