४३
तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलार्द्रैः ।
रक्षाहेतोर्नवशशिभृता वासवीनां चमूनामत्यादित्यं हुतवहमुखे संभृतं तद्द्हि तेजः ॥
वल्लभदेवः तत्र देवगिरौ सदासंनिहितं कुमारं त्वं सुरसरिदुदकरसैः कुसुमवर्षैः पुष्पमेघीकृतात्मत्वात्स्नपयेः पूजयेः । यस्माद्वासवीनां चमूनामैन्द्रीणां सेनानां रक्षार्थं नवशशिभृता चन्द्रमौलिनात्यादित्यं सूर्यादप्यधिकं तत्तेजो वीर्यं संभृतं क्षिप्तम् । असुरोपद्रुतसुररक्षार्थं हि कार्तिकेयो हरेण गौर्यां जनित इत्यागमः । तच्च शुक्रं स्वस्थानचलितमग्निना पीतमभूत् । वासवीनामिति दुर्लभः प्रयोगः । वृद्धाच्छेनाणो बाधितत्वात् । अतिक्रान्त आदित्यो येन तदत्यादित्यम् ॥
पदच्छेदः
तत्रतत्र (अव्ययः)
स्कन्दंस्कन्द (२.१)
नियतवसतिंनियत (√नि-यम् + क्त)–वसति (२.१)
पुष्पमेघीकृतात्मापुष्प–मेघीकृत (√मेघी-कृ + क्त)–आत्मन् (१.१)
पुष्पासारैःपुष्प–आसार (३.३)
स्नपयतुस्नपयतु (√स्नपय् लोट् प्र.पु. एक.)
भवान्भवत् (१.१)
व्योमगङ्गाजलार्द्रैःव्योमगङ्गा–जल–आर्द्र (३.३)
रक्षाहेतोर्रक्षा–हेतु (५.१)
नवशशिभृतानवशशिभृत् (३.१)
वासवीनांवासव (६.३)
चमूनाम्चमू (६.३)
अत्यादित्यंअति (अव्ययः)–आदित्य (२.१)
हुतवहमुखेहुतवह–मुख (७.१)
संभृतंसंभृत (√सम्-भृ + क्त, १.१)
तद्धितद् (१.१)–हि (अव्ययः)
तेजःतेजस् (१.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
त्र स्क न्दंनि तिं पुष्प मे घीकृ ता त्मा
पु ष्पा सा रैःस्नतु वा न्व्यो ङ्गा ला र्द्रैः
क्षा हे तोर्नशिभृ ता वा वी नां मू ना
त्या दि त्यंहुमु खे संभृ तंद्द्हि ते जः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.