४४
ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रीत्या कुवलयपदप्रापि कर्णे करोति ।
धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥
वल्लभदेवः पश्चादनन्तरं पावकेः स्कन्दस्य तं वाहनं मयूरं गर्जितैर्नर्तयेथा लास्यं कारयेथाः । जलदरवनिशमनाद्धि बर्हिणो नृत्यन्ति । तमित्युक्तम् । कं तमित्याह । यस्य गलितं भ्रष्टं बर्हं पक्षं गौरी पुत्रप्रीत्या कर्णे करोत्यवतंसीकुरुते । तच्च कुवलयपदप्राप्युत्पलस्थानारूढम् । ज्योतिर्लेखावलयं तेजोराजिमण्डलं विद्यते यस्य तत्तथोक्तम् । हरशशिरुचा शिवशिरश्चन्द्रश्चन्द्रिकया धौतापाङ्गं क्षालितनेत्रान्तम् । गर्जितैः कीदृशैः । अद्रिग्रहणगुरुभिः पर्वतप्राप्तिपीवरैः । अद्रिग्रहणशब्दे न कर्तृपष्ठीसमासः । नर्तयेथा इति न पादमीत्यादिनात्मनेपदम् ॥
पदच्छेदः
ज्योतिर्लेखावलयिज्योतिस्–लेखा–वलयिन् (१.१)
गलितंगलित (√गल् + क्त, १.१)
यस्ययद् (६.१)
बर्हंबर्ह (१.१)
भवानीभवानी (१.१)
पुत्रप्रेम्णापुत्र–प्रेमन् (३.१)
कुवलयदलप्रापिकुवलय–दल–प्रापिन् (२.१)
कर्णेकर्ण (७.१)
करोतिकरोति (√कृ लट् प्र.पु. एक.)
धौतापाङ्गंधौत (√धाव् + क्त)–अपाङ्ग (२.१)
हरशशिरुचाहर–शशिन्–रुच् (३.१)
पावकेस्पावकि (६.१)
तंतद् (२.१)
मयूरंमयूर (२.१)
पश्चाद्पश्चात् (अव्ययः)
अद्रिग्रहणगुरुभिर्अद्रि–ग्रहण–गुरु (३.३)
गर्जितैर्गर्जित (३.३)
नर्तयेथाःनर्तयेथाः (√नर्तय् विधिलिङ् म.पु. )
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
ज्यो ति र्ले खायिलि तंस्य र्हं वा नी
पु त्र प्री त्याकु प्रापि र्णे रोति
धौ ता पा ङ्गंशिरु चा पा के स्तं यू रं
श्चा द्रिग्रगुरु भि र्गर्जि तै र्नर्त ये थाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.