४५
आराध्यैवं शरवणभुवं देवमुल्लङ्घिताध्वा सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः ।
व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥
वल्लभदेवः शरवणभुवं कुमारमेवं पुष्पासारैः स्नपनादिप्रकारेणाराध्य किंचिच्चाध्वानमतिक्रम्य रन्तिदेवम्य राज्ञः कीर्तिं चर्मण्वत्याख्यां मानयिष्यन्पूजयितुं व्यालम्बेथाः श्रयेथा गच्छेः । कीदृशीम् । सुरभितनया गावस्तासामालम्भनं प्रोक्षणं ततो जाता प्रसूता भुवि च स्रोतोमूर्त्या प्रवाहरूपेण परिणतां रूपान्तरं गताम् । तेन हि नृपेण क्रतुष्वतिबृंहीयस्यो गावः संक्षापिता यासं रुधिराच्चर्मभ्यश्च चर्मण्वती सम्पन्नेत्यागमः । त्वं कीदृशः । सिद्धमिथुनस्तोयबिन्दुत्रासान्मुक्तमार्गः परिहृतपथः । यतो वीणिभिर्वल्लकीहस्तैः । तन्त्रीर्हि' जलार्द्रा विस्वरा भवति । अपरासाद्य वीर्यं सोढुमक्षमया गङ्गया शरवणे त्यक्तमित्यतः शरजत्वं स्कन्दस्य । प्रतिरन्तःशरेक्षुप्लक्षेत्यादिना णत्वम् ॥
पदच्छेदः
आराध्यैनंआराध्य (√आ-राधय् + ल्यप्)–एनद् (२.१)
शरवणभवंशरवण–भव (२.१)
देवम्देव (२.१)
उल्लङ्घिताध्वाउल्लङ्घित (√उत्-लङ्घय् + क्त)–अध्वन् (१.१)
सिद्धद्वन्द्वैर्सिद्ध (√सिध् + क्त)–द्वंद्व (३.३)
जलकणभयाद्जल–कण–भय (५.१)
वीणिभिर्वीणिन् (३.३)
मुक्तमार्गःमुक्त (√मुच् + क्त)–मार्ग (१.१)
व्यालम्बेथाःव्यालम्बेथाः (√व्या-लम्ब् विधिलिङ् म.पु. )
सुरभितनयालम्भजांसुरभितनया–आलम्भ–ज (२.१)
मानयिष्यन्मानयिष्यत् (√मानय् + कृत्, १.१)
स्रोतोमूर्त्यास्रोतस्–मूर्ति (६.१)
भुविभू (७.१)
परिणतांपरिणत (√परि-नम् + क्त, २.१)
रन्तिदेवस्यरन्तिदेव (६.१)
कीर्तिम्कीर्ति (२.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
रा ध्यै वंभु वं दे मु ल्लङ्घि ता ध्वा
सि द्ध द्व न्द्वैर्ज या द्वीणि भि र्मुक्त मा र्गः
व्या म्बे थाःसुभि याम्भ जां मा यिष्य
न्स्रो तो मू र्त्याभुविरि तांन्ति देस्य की र्तिम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.