४६
त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् ।
प्रेक्षिष्यन्ते गगनगतयो दूरमावर्ज्य दृष्टीरेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥
वल्लभदेवः त्वयि तोयं ग्रहीतुमवनते लम्बमाने सति तस्याः मिन्धोश्चर्मण्वत्याः प्रवाहं सिताख्या नभश्चराश्चक्षूंषि दूरमत्यर्थमावर्ज्य निक्षिप्य कौतुकाद्द्रक्ष्यन्ति । यतो भुवः स्थूलमध्येन्द्रनीलमेकं मुक्तागुणं मौक्तिकदामेव । स्रोतसो मुक्तागुणनिभत्वादम्बुदस्य च महानीलतुल्यत्वात् । कीदृशं प्रवाहम् । पृथुमपि तनुं विस्तीमपि स्वल्पम् । कुतः । दूरभावाद्विप्रकर्षात् । दूराद्धि महदपि स्वल्पं दृश्यते । अत एव मुक्तागुणसारूप्यम् । त्वयि कीदृशे । सजलत्वात्कृष्णस्य वर्णचौरे नीले । एतेनेन्द्रनीलनिभत्वमुक्तम् ॥
पदच्छेदः
त्वय्य्त्वद् (७.१)
आदातुंआदातुम् (√आ-दा + तुमुन्)
जलम्जल (२.१)
अवनतेअवनत (√अव-नम् + क्त, ७.१)
शार्ङ्गिणोशार्ङ्गिन् (६.१)
वर्णचौरेवर्ण–चौर (७.१)
तस्याःतद् (६.१)
सिन्धोःसिन्धु (६.१)
पृथुम्पृथु (२.१)
अपिअपि (अव्ययः)
तनुंतनु (२.१)
दूरभावात्दूर–भाव (५.१)
प्रवाहम्प्रवाह (२.१)
प्रेक्षिष्यन्तेप्रेक्षिष्यन्ते (√प्र-ईक्ष् लृट् प्र.पु. बहु.)
गगनगतयोगगन–गति (१.३)
नूनम्नूनम् (अव्ययः)
आवर्ज्यआवर्ज्य (√आ-वर्जय् + ल्यप्)
दृष्टिर्दृष्टि (१.१)
एकंएक (२.१)
मुक्तागुणम्मुक्ता–गुण (२.१)
इवइव (अव्ययः)
भुवःभू (६.१)
स्थूलमध्येन्द्रनीलम्स्थूल–मध्य–इन्द्रनील (२.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
त्व य्या दा तुं ते शार्ङ्गि णोर्ण चौ रे
स्याः सि न्धोःपृथुपि नुं दू भा वात्प्र वा हम्
प्रे क्षि ष्य न्ते यो दू मार्ज्य दृ ष्टी
रे कं मु क्तागुमिभु वः स्थू ध्येन्द्र नी लम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.