४७
तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम् ।
कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥
वल्लभदेवः तां चर्मण्वतीमतीत्य दशपुराख्ये नगरे युवतिनयनकौतुकानामात्मानं पात्रीकुर्वस्तासां नेत्रविषयं नयनन्गच्छेः । दशपुरनिकटेन याया यथा तन्नागरिकास्त्वामीक्षेरन्नित्यर्थः । कीदृशानाम् । नागरिकत्वात्परिचिता अभ्यस्ता भ्रूशाखाविलासा येषाम् । तथा त्वदालोकनवशात्पक्ष्मोत्क्षेपेणोपरि विलसन्ती स्फुरन्ती कृपणशारप्रभा येषाम् । अतश्च कुन्दकुसुमस्य यः क्षेपः प्रेरणां तस्यानुगा अनुयायिनो ये भ्रमरास्तेषां श्रियं शोभां मुष्णन्ति यानि तेषाम् । कुन्दानां मितत्वादलीनां च कालत्वात् । यद्यपि कौतूहलविशेषणान्येतानि तथापि वस्तुबलात्तद्वत्तां नेत्राणामिवैते गुणाः ॥
पदच्छेदः
ताम्तद् (२.१)
उत्तीर्यउत्तीर्य (√उत्-तृ + ल्यप्)
व्रजव्रज (√व्रज् लोट् म.पु. )
परिचितभ्रूलताविभ्रमाणांपरिचित (√परि-चि + क्त)–भ्रू–लता–विभ्रम (६.३)
पक्ष्मोत्क्षेपाद्पक्ष्मन्–उत्क्षेप (५.१)
उपरिविलसत्कृष्णशारप्रभाणाम्उपरि (अव्ययः)–विलसत् (√वि-लस् + शतृ)–कृष्ण–शार–प्रभा (६.३)
कुन्दक्षेपानुगमधुकरश्रीमुषाम्कुन्द–क्षेप–अनुग–मधुकर–श्री–मुष् (६.३)
आत्मबिम्बंआत्मन्–बिम्ब (२.१)
पात्रीकुर्वन्पात्रीकुर्वत् (√पात्री-कृ + शतृ, १.१)
दशपुरवधूनेत्रकौतूहलानाम्दशन्–पुरवधू–नेत्र–कौतूहल (६.३)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
ता मु त्ती र्यव्ररिचि भ्रू ता विभ्र मा णां
क्ष्मो त्क्षे पादुरिवि त्कृष्ण शाप्र भा णाम्
कु न्द क्षे पानुधु श्रीमु षा मात्म बि म्बं
पा त्री कु र्वन्दपु धू नेत्र कौ तू ला नाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.