जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं याच्ञा वन्ध्या वरमधिगुणे नाधमे लब्धकामा ॥
वल्लभदेवः यतस्त्वामहमेवंविधं वेदातोऽहं प्रार्थित्वं प्राप्तः । कीदृशम् । पुष्करावर्तकानां प्रलयमेघानां वंशे कुले जातमिति कुलीनत्वोक्तिः । तथा मघोन इन्द्रस्य प्रकृतिपुरुषममात्यपुरुषमिति प्रभावकथनम् । प्रकृतिषु ह्यमात्याः प्रधानभूताः । इन्द्रम्य च मेघा एव प्रियकराः । प्रकृतिषु प्रकृतिश्चासाविति वा पुरुषः प्रकृतिपुरुषः । स्वाम्यमात्यौ च राष्ट्रं च कोशो दुर्गं बलं सुहृत् । सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते ॥ कामरूपं मनोज्ञं म्वेच्छारूपं वा । बह्वरूपत्वान्मेघानाम् । तदेव वक्ष्यति । पुष्पमेघीकृतात्मेति । अत एव विधिवशादहं दूरबन्धुरसंनिहितदारस्त्वय्यर्थित्वं गतो याच्ञाकरः संपन्नः । यद्येवंगुणयुक्तोऽहं तर्हि किमित्येतावता मय्यर्थनेत्याह । यस्मादधिगुणे कुलादिगुणोत्कृष्टे पुरुषे याच्ञा वन्ध्या निष्फला वरं भद्रम् । अलज्जावहत्वात् । न त्वधमे निकृष्टे लब्धकामा प्राप्तेष्टार्थापीति । भिन्नलिङ्गत्वेऽपि सामान्योपक्रमात्सामानाधिकरण्यम् । यथा। वरं कृपशताद्वापीत्यादौ' ॥
पदच्छेदः
जातंजात (√जन् + क्त, २.१)
वंशेवंश (७.१)
भुवनविदितेभुवन–विदित (√विद् + क्त, ७.१)
पुष्करावर्तकानांपुष्करावर्तक (६.३)
जानामिजानामि (√ज्ञा लट् उ.पु. )
त्वांत्वद् (२.१)
प्रकृतिपुरुषंप्रकृतिपुरुष (२.१)
कामरूपंकामरूप (२.१)
मघोनःमघवन् (६.१)
तेनार्थित्वंतद् (३.१)–अर्थित्व (१.१)
त्वयित्वद् (७.१)
विधिवशाद्दूरबन्धुर्गतोविधि–वश (५.१)–दूर–बन्धु (१.१)–गत (√गम् + क्त, १.१)
ऽहंमद् (१.१)
याच्ञायाच्ञा (१.१)
मोघामोघ (१.१)
वरम्वर (२.१)
अधिगुणेअधिगुण (७.१)
नाधमे (अव्ययः)–अधम (७.१)
लब्धकामालब्ध (√लभ् + क्त)–काम (१.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
जा तं वं शेभुविदि ते पुष्क रार्त का नां
जा ना मि त्वांप्रकृतिपुरु षं का रू पं घो नः
ते ना र्थि त्वंत्वयिविधि शा द्दू न्धुर्ग तो ऽहं
या च्ञा न्ध्याधिगु णे ना मेब्ध का मा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.