संतप्तानां त्वमसि शरणं तत्पयोद प्रियायाः संदेशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥
वल्लभदेवः हे पयोद संतप्तानामम्बुदानेन त्वं यदा शरणं त्राणं भवसि तन्ममापि विरहसंतप्तस्य संदेशं वार्तां प्रियायाः सकाशं हर नय प्रापय । धनपतिक्रोधविश्लेषितस्येति संतप्तत्वप्रतिपादनम् । क्व मया गन्तव्यमित्याह । गुह्यकाधिपानां वसतिरलका नाम पुरी ते गन्तव्या यातव्या । न च सा दुर्ज्ञानेत्याह' । बाह्योद्याने कैलासोपवने । बाह्यं च तदुदवानं च । तत्र स्थितो यो हरस्तस्य शिरश्चन्द्रिकया धौतानि हर्म्याणि यत्र सा दिनेऽपि विक्षालितसौधा । त इति कृत्यानां कर्तरि वा ॥
पदच्छेदः
संतप्तानांसंतप्त (√सम्-तप् + क्त, ६.३)
त्वमसित्वद् (१.१)–असि (√अस् लट् म.पु. )
शरणंशरण (१.१)
तत्पयोदतद् (२.१)–पयोद (८.१)
प्रियायाःप्रिया (६.१)
संदेशंसंदेश (२.१)
मेमद् (६.१)
हरहर (√हृ लोट् म.पु. )
धनपतिक्रोधविश्लेषितस्यधनपति–क्रोध–विश्लेषित (√वि-श्लेषय् + क्त, ६.१)
गन्तव्यागन्तव्य (√गम् + कृत्, १.१)
तेत्वद् (६.१)
वसतिर्वसति (१.१)
अलकाअलका (१.१)
नामनाम (अव्ययः)
यक्षेश्वराणांयक्ष–ईश्वर (६.३)
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्याबाह्य–उद्यान–स्थित (√स्था + क्त)–हर–शिरस्–चन्द्रिका–धौत–हर्म्य (१.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
सं प्ता नांत्वसि णंत्प योप्रि या याः
सं दे शं मे ति क्रो वि श्लेषिस्य
न्त व्या तेति का ना क्षेश्व रा णां
बा ह्यो द्यास्थिशि श्चन्द्रि का धौ र्म्या
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.