त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः ।
कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥
वल्लभदेवः वातमार्गं खमुद्गतं भवन्तं पान्थाङ्गना विरहिण्योऽलकानुत्क्षिप्य द्रक्ष्यन्ति । यतः प्रत्ययान्निश्चयोत्पादनादाश्वसन्त्यः । अयं जीमूत उदितः । अत्रावश्यमस्मत्प्राणेश्वरैरागन्तव्यमिति । तद्दर्शनमात्रे कस्मादाशा कृतेत्याह । त्वयि संनद्धे कृतोद्योगे सति वियोगाकुलां प्रेयसीं क उपेक्षेत विरहयेत् । यद्यन्योऽपि जनस्तादृशो न स्यात् । कीदृशः । मादृशः पराधीनवृत्तिः । अथ वा कोऽन्यो जनो जायामुपेक्षेतेत्यत्र सबन्धः । स्वाधीना हि कान्ताभिः सह रममाणाः प्रावृषमतिवाहयन्ति । संनद्धादयः शब्दाः एवमादावोपचारिकाः ॥
पदच्छेदः
त्वाम्त्वद् (२.१)
आरूढंआरूढ (√आ-रुह् + क्त, २.१)
पवनपदवीम्पवन–पदवी (२.१)
उद्गृहीतालकान्ताःउद्गृहीत (√उत्-ग्रह् + क्त)–अलक–अन्त (१.३)
प्रेक्षिष्यन्तेप्रेक्षिष्यन्ते (√प्र-ईक्ष् लृट् प्र.पु. बहु.)
पथिकवनिताःपथिक–वनिता (१.३)
प्रत्ययादाश्वसन्त्यःप्रत्यय (५.१)–आश्वसत् (√आ-श्वस् + शतृ, १.३)
कः (१.१)
संनद्धेसंनद्ध (√सम्-नह् + क्त, ७.१)
विरहविधुरांविरह–विधुर (२.१)
त्वय्युपेक्षेतत्वद् (७.१)–उपेक्षेत (√उप-ईक्ष् विधिलिङ् प्र.पु. एक.)
जायांजाया (२.१)
(अव्ययः)
स्यादन्योस्यात् (√अस् विधिलिङ् प्र.पु. एक.)–अन्य (१.१)
ऽप्यहमिवअपि (अव्ययः)–मद् (१.१)–इव (अव्ययः)
जनोजन (१.१)
यःयद् (१.१)
पराधीनवृत्तिःपर–अधीन–वृत्ति (१.१)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
त्वा मा रू ढं वी मुद्गृ ही ता का न्ताः
प्रे क्षि ष्य न्तेथिनि ताः प्रत्य या दाश्व न्त्यः
कः सं द्धेविविधु रां त्वय्यु पे क्षे जा यां
स्या न्योऽप्यमि नो यः रा धी वृ त्तिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.