तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः ।
हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ॥

अन्वयः AI सत् असत् व्यक्ति हेतवः सन्तः तम् श्रोतुम् अर्हन्ति । हि अग्नौ हेम्नः विशुद्धिः श्यामिका अपि वा संलक्ष्यते ।
सञ्जीविनीटीका (मल्लिनाथः) तमिति॥ तं रघुवंशाख्यं प्रबन्धं सदसतोर्गुणदोषयोर्व्यव्यक्तेर्हेतवः कर्तारः सन्तः श्रोतुमर्हन्ति। तथा हि-हेम्नो विशुद्धिर्निर्दोषस्वरूपं श्यामिकापि लोहान्तरसंगर्गात्मको दोषोऽपि वाऽग्नौ संलक्ष्यते, नान्यत्र। तद्वदत्रापि सन्त एव गुणदोषविवेकाधिकारिणः, नान्य इति भावः ॥
Summary AI Noble people, capable of discerning the good from the bad, should listen to this work. Indeed, the purity or impurity of gold is best tested in fire.
सारांश AI गुण-दोष का विवेक रखने वाले सज्जन ही इसे सुनें; क्योंकि सोने की शुद्धता या खोट की परीक्षा अग्नि में ही संभव होती है।
पदच्छेदः AI
तम्तद् (२.१) that
सन्तःसत् (१.३) good people
श्रोतुम्श्रोतुम् (√श्रु+तुमुन्) to listen
अर्हन्तिअर्हन्ति (√अर्ह् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) are worthy
सदसद्व्यक्तिहेतवःसत्असत्व्यक्तिहेतु (१.३) who can distinguish between good and bad
हेम्नःहेमन् (६.१) of gold
संलक्ष्यतेसंलक्ष्यते (सम्√लक्ष् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is tested
हिहि indeed
अग्नौअग्नि (७.१) in fire
विशुद्धिःविशुद्धि (वि√शुध्+क्तिन्, १.१) purity
श्यामिकाश्यामिका (१.१) impurity
अपिअपि also
वावा or
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तं न्तः श्रो तु र्ह न्ति
द्व्य क्ति हे वः
हे म्नः सं क्ष्य ते ह्य ग्नौ
वि शु द्धिः श्या मि का पि वा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.