वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ।
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥

अन्वयः AI मनीषिणाम् माननीयः वैवस्वतः मनुः नाम महीक्षिताम् आद्यः छन्दसाम् प्रणवः इव आसीत् ।
सञ्जीविनीटीका (मल्लिनाथः) वैवस्वत इति॥ मनस ईषिणो मनीषिणो धीराः, विद्वांस इति त्यावत्। पृषोदरादित्वात्साधुः। तेषां माननीयः पूज्यः। छन्दसां वेदानाम्। छन्दः पद्मे च वेदे चइति विश्वः। प्रणव ओंकार इव। महीं क्षियन्तीशत इति महीक्षितः क्षितीश्वराः। क्षिधातोरैश्वर्यार्थात्क्विप्, तुगागमश्च। तेषाम्, आद्य आदिभूतः। विवस्वतः सूर्यस्यापत्यं पुमान् वैवस्वतो नाम वैवस्वत इति प्रसिद्धो मनुरासीत् ॥
Summary AI There was a king named Vaivasvata Manu, revered by the wise, who was the first among all kings just as the sacred syllable Om is the first of all Vedic hymns.
सारांश AI विद्वानों के पूजनीय वैवस्वत मनु राजाओं में प्रथम हुए, जैसे वेदों के आरंभ में ओंकार प्रतिष्ठित होता है।
पदच्छेदः AI
वैवस्वतःवैवस्वत (१.१) the son of Vivasvān
मनुःमनु (१.१) Manu
नामनामन् (१.१) by name
माननीयःमाननीय (√मान्+अनीयर्, १.१) respected
मनीषिणाम्मनीषिन् (६.३) by the wise
आसीत्आसीत् (√अस् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
महीक्षिताम्महीक्षित् (६.३) of the kings
आद्यःआद्य (१.१) the first
प्रणवःप्रणव (१.१) the syllable Om
छन्दसाम्छन्दस् (६.३) of the Vedas
इवइव like
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वै स्व तो नु र्ना
मा नी यो नी षि णाम्
सी न्म ही क्षि ता मा द्यः
प्र श्छ न्द सा मि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.