Loading data... On slow networks this could take a few minutes.
100%

रेखामात्रमपि क्षुण्णादा मनोर्वर्त्मनः परम् ।
न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ॥

अन्वयः AI नियन्तुः तस्य प्रजाः क्षुण्णात् मनोः वर्त्मनः रेखामात्रम् अपि परम् नेमिवृत्तयः न व्यतीयुः ।
सञ्जीविनीटीका (मल्लिनाथः) रेखामात्रमिति॥ नियन्तुः शिक्षकस्य सारथेश्च तस्य दिलीपस्य संबन्धिन्यो नेमीनां चक्रधाराणां वृत्तिरिव वृत्तिर्व्यापारो यासां ताः। चक्रधारा प्रधिर्नेमिः इति यादवः। चक्रं रथाङअगं तस्यान्ते नेमिः स्त्त्री स्यात्प्रधिः पुमान् इत्यमरः। प्रजाः। आ मनोः, मनुमारभ्येत्यभिविधिः। पदद्वयं चैतत्। समासस्य विभाषितत्वात्। क्षुण्णादभ्यस्तात् प्रहताञ्च वर्त्मन आचारपद्धतेरध्वनश्च परमधिकम्। इतस्तत इत्यर्थः। रेखा प्रमाणमस्येति रेखामात्रं रेखाप्रमाणम्। ईषदपीत्यर्थः। प्रमाणे द्वयसच्- (अष्टाध्यायी ५.२.३७ ) इत्यादिना मात्रच्प्रत्ययः। परशब्दविशेषणं चैतत्। न व्यतीयुर्नातिक्रान्तवत्यः। कुशलसारथिप्रेरिता रथनेमय इव तस्य प्रजाः पूर्वक्षुण्णमार्गं न जहुरिति भावः॥
Summary AI Under his disciplined rule, his subjects did not deviate even a hair’s breadth from the path laid down by Manu, just as the rim of a wheel follows a well-beaten track.
सारांश AI जैसे रथ का पहिया लीक से बाहर नहीं जाता, वैसे ही राजा दिलीप के शासन में उनकी प्रजा मनु द्वारा प्रतिपादित मार्ग से रत्ती भर भी विचलित नहीं हुई।
पदच्छेदः AI
रेखामात्रम्रेखामात्र (२.१) even a line's breadth
अपिअपि even
क्षुण्णात्क्षुण्ण (√क्षुद्+क्त, ५.१) from the trodden
मनोःमनु (६.१) of Manu
वर्त्मनःवर्त्मन् (५.१) from the path
परम्पर (२.१) beyond
not
व्यतीयुःव्यतीयुः (वि+अति√इ कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) deviated
प्रजाःप्रजा (१.३) the subjects
तस्यतद् (६.१) his
नियन्तुःनियन्तृ (नि√यम्+तृच्, ६.१) of the ruler
नेमिवृत्तयःनेमिवृत्ति (१.३) like the rim of a wheel
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रे खा मा त्र पि क्षु ण्णा
दा नो र्व र्त्म नः रम्
व्य ती युः प्र जा स्त स्य
नि न्तु र्ने मि वृ त्त यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.