Loading data... On slow networks this could take a few minutes.
100%

प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् ।
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥

अन्वयः AI सः प्रजानाम् भूत्यर्थम् एव ताभ्यः बलिम् अग्रहीत् । हि रविः सहस्रगुणम् उत्स्रष्टुम् रसम् आदत्ते ।
सञ्जीविनीटीका (मल्लिनाथः) प्रजानामिति॥ स राजा प्रजानां भूत्या अर्थाय भूत्यर्थं वृध्द्यर्थमेव। अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या। ग्रहणक्रियाविशेषणं चैतत्। ताभ्यः प्रजाभ्यो बलिं षष्ठांशरूपं करमग्रहीत्। भागधेयः करो बलिः इत्यमरः (अमरकोशः २.८.२७ ) । तथा हि-रविः सहस्रं गुणा यस्मिन्कर्मणि तद्यथा तथा सहस्रगुणं सहस्रधा। उत्स्रष्टुं दातुम्। उत्सर्जनक्रियाविशेषणं चैतत्। रसमम्बु। आदत्ते गृह्णाति। रसो गन्धे रसे स्वादेतिक्तादौ विषरागयोः। शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे॥ इति विश्वः ॥
Summary AI He collected taxes from his subjects only for their welfare, just as the Sun draws moisture from the earth only to give it back a thousandfold in the form of rain.
सारांश AI राजा दिलीप प्रजा के कल्याण के लिए ही उनसे कर लेते थे, ठीक वैसे ही जैसे सूर्य हजार गुना लौटाने के लिए पृथ्वी से जल ग्रहण करता है।
पदच्छेदः AI
प्रजानाम्प्रजा (६.३) of the subjects
एवएव only
भूत्यर्थम्भूतिअर्थ (२.१) for the sake of prosperity
सःतद् (१.१) he
ताभ्यःतद् (५.३) from them
बलिम्बलि (२.१) tax
अग्रहीत्अग्रहीत् (√ग्रह् कर्तरि लुङ् (परस्मै.) प्र.पु. एक.) took
सहस्रगुणम्सहस्रगुण (२.१) thousandfold
उत्स्रष्टुम्उत्स्रष्टुम् (उद्√सृज्+तुमुन्) to give back
आदत्तेआदत्ते (आ√दा कर्तरि लट् (आत्मने.) प्र.पु. एक.) takes
हिहि indeed
रसम्रस (२.१) moisture/essence
रविःरवि (१.१) the sun
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्र जा ना मे भू त्य र्थं
ता भ्यो लि ग्र हीत्
स्र गु मु त्स्र ष्टु
मा त्ते हि सं विः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.