Loading data... On slow networks this could take a few minutes.
100%

सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् ।
शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता ॥

अन्वयः AI सेना तस्य परिच्छदः (आसीत्) तस्य अर्थसाधनम् द्वयम् एव - शास्त्रेषु अकुण्ठिता बुद्धिः धनुषि च आतता मौर्वी ।
सञ्जीविनीटीका (मल्लिनाथः) सेनेति॥ तस्य राज्ञः सेना चतुरङ्गबलम्। परिच्छाद्यतेऽनेनेति परिच्छद उपकरणं बभूव। छत्रचामरादितुल्यमभूदित्यर्थः। पुंसि संज्ञायां घः प्रायेण (अष्टाध्यायी ३.३.११८ ) इति घप्रत्ययः। छादेर्घोऽव्द्युपसर्गस्य (अष्टाध्यायी ६.४.९६ ) इत्युपधाह्रस्वः। अर्थस्य प्रयोजनस्य तु साधनं द्वयमेव। शास्त्त्रेष्वकुण्ठिताऽव्याहता बुद्धिः। व्यापृताइत्यपि पाठः। धनुष्यातताऽऽरोपिता। मौर्वी ज्या च। मौर्वी ज्याशिञ्जिनी गुणः इत्यमरः। नीतिपुरः सरमेव तस्य शौर्यमभूदित्यर्थः॥
Summary AI His army was merely a ceremonial retinue; his actual means of achieving goals were only two: his sharp intellect in the scriptures and the string stretched upon his bow.
सारांश AI सेना तो केवल उनके वैभव का साधन थी, उनके कार्य सिद्ध करने के वास्तविक हथियार शास्त्रों में उनकी कुशाग्र बुद्धि और धनुष की प्रत्यंचा थे।
पदच्छेदः AI
सेनासेना (१.१) the army
परिच्छदःपरिच्छद (परि√छद्+अच्, १.१) retinue/ornament
तस्यतद् (६.१) his
द्वयम्द्वय (१.१) the two
एवएव only
अर्थसाधनम्अर्थसाधन (√साध्+ल्यूट्, १.१) means of achieving goals
शास्त्रेषुशास्त्र (७.३) in the scriptures
अकुण्ठिताअकुण्ठिता (√कुण्ठ्+क्त+टाप्, १.१) unfailing
बुद्धिःबुद्धि (१.१) intellect
मौर्वीमूर्वा (+अण्+ङीष्, १.१) bowstring
धनुषिधनुस् (७.१) on the bow
and
आतताआतता (आ√तन्+क्त+टाप्, १.१) stretched
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
से ना रि च्छ स्त स्य
द्व मे वा र्थ सा नम्
शा स्त्रे ष्व कु ण्ठि ता बु द्धि
र्मौ र्वी नु षि चा ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.