Loading data... On slow networks this could take a few minutes.
100%

तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च ।
फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥

अन्वयः AI संवृतमन्त्रस्य गूढ आकार इङ्गितस्य च तस्य प्रारम्भाः प्राक्तनाः संस्काराः इव फलानुमेयाः (आसन्) ।
सञ्जीविनीटीका (मल्लिनाथः) तस्येति॥ संवृतमन्त्रस्य गुप्तविचारस्य। वेदभेदे गुप्तवादे मन्त्रः इत्यमरः (अमरकोशः ३.३.१७५ ) । शोकहर्षादिसूचको भ्रुकुटीमुखरागादिराकारः। इङ्गितं चेष्टितं हृदयगतविकारो वा। इङ्गितं हृद्गतो भावो बहिराकार आकृतिः इति सज्जनः। गूढे आकारेङ्गिते यस्य। स्वभावचापलाद्भ्रमपरम्परया मुखरागादिलिङ्गैर्वाऽतृतीयगामिमन्त्रस्य तस्य। प्रारभ्यन्त इति प्रारम्भाः सामाद्युपायप्रयोगाः। प्राक्इत्यव्ययेन पूर्वजन्मोच्यते। तत्र भवाः प्राक्तनाः। सायंचिरं- (अष्टाध्यायी ४.३.२३ ) इत्यादिना ट्युल्प्रत्ययः। संस्काराः पूर्वकर्मवासना इव फलेन कार्येण अनुमेया अनुमातुं योग्या आसन्। अत्र याज्ञवल्क्यः(आचार.१३।३४४)-मन्त्रमूलं यतो राज्यमतो मन्त्रं सुरक्षितम् । कुर्याद्यथा तन्न विदुः कर्मणामा फलोदयात् ॥ इति ॥
Summary AI His counsel was kept secret and his physical expressions were hidden; thus, his undertakings could only be inferred from their results, much like the hidden impressions of past lives.
सारांश AI उनकी गुप्त मंत्रणा और गूढ़ मुखाकृति के कारण उनके कार्यों का पता फल मिलने पर ही चलता था, जैसे पूर्व जन्म के संस्कारों का अनुभव बाद में होता है।
पदच्छेदः AI
तस्यतद् (६.१) his
संवृतमन्त्रस्यसंवृत (सम्√वृ+क्त)मन्त्र (६.१) of one whose counsel is secret
गूढाकारेङ्गितस्यगूढ (√गुह्+क्त)आकारइङ्गित (६.१) of one whose gestures are hidden
and
फलानुमेयाःफलअनुमेय (अनु√मा+यत्, १.३) inferable by results
प्रारम्भाःप्रारम्भ (प्र+आ√रभ्+घञ्, १.३) undertakings
संस्काराःसंस्कार (सम्√कृ+घञ्, १.३) impressions
प्राक्तनाःप्राक् (+त्यप्, १.३) of past lives
इवइव like
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्य सं वृ न्त्र स्य
गू ढा का रे ङ्गि स्य
ला नु मे याः प्रा म्भाः
सं स्का राः प्रा क्त ना
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.