Loading data... On slow networks this could take a few minutes.
100%

जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत् ॥

अन्वयः AI अत्रस्तः सः आत्मानं जुगोप अनातुरः धर्मं भेजे अगृध्नुः अर्थम् आददे असक्तः सुखम् अन्वभूत्।
सञ्जीविनीटीका (मल्लिनाथः) जुगोपेति॥ अत्रस्तोऽभीतः सन्। त्रस्नौ भीरुभीरुकभीलुकाः इत्यमरः (अमरकोशः ३.१.२२ ) । त्रासोपाधिमन्तरेणैव त्रिवर्गसिद्धेः प्रथमसाधनत्वादेवाऽऽत्मानं शरीरं जुगोप रक्षितवान्। अनातुरोऽरुग्ण एव धर्मं सुकृतं भेजे। अर्जितवानित्यर्थः। अगृध्नुरगर्धनशील एवार्थमाददे स्वीकृतवान्। गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक्समौलोलुपलोल्लभौ। इत्यमरः (अमरकोशः ३.१.२२ ) त्रसिगृधिधृषिक्षिपेः क्नुः (अष्टाध्यायी ३.२.१४० ) इति क्नुप्रत्ययः। असक्त आसक्तिरहित एव सुखमन्वभूत् ॥
Summary AI Without fear he protected himself, without ailment he practiced dharma, without greed he acquired wealth, and without attachment he enjoyed pleasures.
सारांश AI राजा दिलीप निर्भय होकर अपनी रक्षा करते, बिना व्याकुलता के धर्म का पालन करते, लोभ रहित होकर धन संग्रह करते और बिना आसक्ति के सुख भोगते थे।
पदच्छेदः AI
सःतद् (१.१) he (King Dilīpa)
अत्रस्तःत्रस्त (√त्रस्+क्त, १.१) without fear
आत्मानम्आत्मन् (२.१) himself
जुगोपजुगोप (√गुप् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) protected
अनातुरःआतुर (१.१) without disease
धर्मम्धर्म (२.१) righteousness
भेजेभेजे (√भज् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) followed
अगृध्नुःगृध्नु (१.१) without greed
अर्थम्अर्थ (२.१) wealth
आददेआददे (आ√दा कर्तरि लिट् (आत्मने.) प्र.पु. एक.) accepted/collected
असक्तःसक्त (√सञ्ज्+क्त, १.१) without attachment
सुखम्सुख (२.१) pleasure
अन्वभूत्अन्वभूत् (अनु√भू कर्तरि लुङ् (परस्मै.) प्र.पु. एक.) experienced
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
जु गो पा त्मा त्र स्तो
भे जे र्म ना तु रः
गृ ध्नु रा दे सो ऽर्थ
क्तः सु न्व भूत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.