Loading data... On slow networks this could take a few minutes.
100%

द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् ।
त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥

अन्वयः AI आर्तस्य औषधम् यथा तस्य द्वेष्यः अपि शिष्टः संमतः आसीत् उरगक्षता अङ्गुली इव प्रियः अपि दुष्टः त्याज्यः आसीत्।
सञ्जीविनीटीका (मल्लिनाथः) द्वेष्य इति॥ शिष्टो जनो द्वेष्यः शत्रुरपि। आर्तस्य रोगिण औषधं यथौषधमिव। तस्य संमतोऽनुमत आसीत्। दुष्टो जनः प्रियोऽपि प्रेमास्पदीभूतोऽपि उरगक्षता सर्पदष्टाऽङ्गुलीव। छिन्द्याद्बाहुमपि दुष्टमात्मः इति न्यायात्। त्याज्य आसीत्। तस्य शिष्ट एव बन्धुर्दुष्ट एव शत्रुरित्यर्थः ॥
Summary AI Like medicine to a sick man, even an enemy was acceptable to him if he was righteous; like a finger bitten by a snake, even a loved one was abandoned if he was wicked.
सारांश AI वे रोगी के लिए औषधि के समान श्रेष्ठ शत्रु को भी स्वीकार करते थे, किंतु सांप द्वारा डंसी उंगली की तरह दुष्ट प्रियजन का भी त्याग कर देते थे।
पदच्छेदः AI
द्वेष्यःद्वेष्य (√द्विष्+यत्, १.१) hateful/enemy
अपिअपि even
संमतःसम्–संमत (√मन्+क्त, १.१) acceptable
शिष्टःशिष्ट (√शास्+क्त, १.१) virtuous person
तस्यतद् (६.१) to him
आर्तस्यआर्त (√ऋ+क्त, ६.१) of the sick man
यथायथा just as
औषधम्औषध (१.१) medicine
त्याज्यःत्याज्य (√त्यज्+ण्यत्, १.१) to be abandoned
दुष्टःदुष्ट (√दुष्+क्त, १.१) wicked person
प्रियःप्रिय (१.१) dear one
आसीत्आसीत् (√अस् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
अङ्गुलीअङ्गुली (१.१) finger
इवइव like
उरगक्षताउरगक्षत (√क्षण्+क्त, १.१) bitten by a snake
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्वे ष्यो ऽपि सं तः शि ष्ट
स्त स्या र्त स्य थौ धम्
त्या ज्यो दु ष्टः प्रि यो ऽप्या सी
ङ्गु ली वो क्ष ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.