Loading data... On slow networks this could take a few minutes.
100%

तं वेधा विदधे नूनं महाभूतसमाधिना ।
तथा हि सर्वे तस्यासन्परार्थैकफला गुणा ॥

अन्वयः AI वेधाः नूनं महाभूतसमाधिना तम् विदधे तथा हि तस्य सर्वे गुणाः परार्थैकफलाः आसन्।
सञ्जीविनीटीका (मल्लिनाथः) तमिति॥ वेधाः स्रष्टा। स्रष्टा प्रजापतिर्वेधाः इत्यमरः (अमरकोशः १.१.१७ ) । तं दिलीपम्। स्माधीयतेऽनेनेति समाधिः कारणसामग्री। महाभूतानां यः समाधिस्तेन महाभूतसमाधिना विदधे ससर्ज। नूनं ध्रुवम्। इत्युत्प्रेक्षा। तथा हि-तस्य राज्ञः सर्वे गुणा रूपरसादिमहाभूतगुणवदेव परार्थः परप्रयोजनमेवैकं मुख्यं फलं येषां ते तथोक्ता आसन्। महाभूतगुणोपमानेन कारणगुणाः कार्यं संक्रामन्तीति न्यायः सूचितः ॥
Summary AI Surely the Creator fashioned him with the collection of the five great elements, for all his virtues were intended solely for the benefit of others.
सारांश AI विधाता ने निश्चित ही पंचमहाभूतों के सार से उनका निर्माण किया था, क्योंकि उनके सभी गुण केवल दूसरों के उपकार के लिए ही प्रयुक्त होते थे।
पदच्छेदः AI
तम्तद् (२.१) him
वेधाःवेधस् (१.१) the Creator
विदधेविदधे (वि√धा कर्तरि लिट् (आत्मने.) प्र.पु. एक.) fashioned
नूनम्नूनम् surely
महाभूतसमाधिनामहत्भूतसमाधि (३.१) with the collection of the great elements
तथातथा so
हिहि for
सर्वेसर्व (१.३) all
तस्यतद् (६.१) his
आसन्आसन् (√अस् कर्तरि लङ् (परस्मै.) प्र.पु. बहु.) were
परार्थैकफलाःपरअर्थएकफल (१.३) having the sole result of benefiting others
गुणाःगुण (१.३) virtues
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तं वे धा वि धे नू नं
हा भू मा धि ना
था हि र्वे स्या
न्प रा र्थै ला गु णा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.