Loading data... On slow networks this could take a few minutes.
100%

स वेलावप्रवलयां परिखीकृतसागराम् ।
अनन्यशासनामुर्वीं शशासैकपुरीमिव ॥

अन्वयः AI सः वेलावप्रवलयाम् परिखीकृतसागराम् अनन्यशासनाम् उर्वीम् एकपुरीम् इव शशास।
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ स दिलीपः। वेलाः समुद्रकूलानि। वेला कूलेऽपि वारिधेः इति विश्वः। ता एव वप्रवलयाः प्राकारवेष्टनानि यस्यास्ताम्। स्याञ्चयो वप्रमस्त्त्रियाम्। प्राकारो वरणः सालः प्राचीरं प्रान्ततो वृत्तिः ॥ इत्यमरः (अमरकोशः २.२.३ ) । परितः खातं परिखा दुर्गवेष्टनम्। खातं खेयं तु परिखा इत्यमरः (अमरकोशः २.२.३ ) अन्येष्वपि दृश्यते (अष्टाध्यायी ३.२.१०१ ) इत्यत्र अपि शब्दात् खनेर्डप्रत्ययः। अपरिखाः परिखाः संपद्यमानाः कृताः परिखीकृताः सागरा यस्यास्ताम्। अभूततद्भावे च्विः। अविद्यमानमन्यस्य राज्ञः शासनं यस्यास्तामनन्यशाननामुर्वीमेकपुरीमिव शशास। अनायासेन शासितवानित्यर्थः॥
Summary AI He ruled the earth, which had the shoreline as its rampart and the ocean as its moat, as if it were a single city, with none other to command it.
सारांश AI समुद्र रूपी खाई और तट रूपी परकोटों वाली इस संपूर्ण पृथ्वी पर, जहाँ किसी अन्य का शासन नहीं था, उन्होंने एक नगर के समान एकछत्र शासन किया।
पदच्छेदः AI
सःतद् (१.१) he
वेलावप्रवलयाम्वेलावप्रवलय (२.१) having the shores as ramparts
परिखीकृतसागराम्परिखाकृ (+च्वि+क्त)सागर (२.१) having the ocean as a moat
अनन्यशासनाम्अन्यशासन (√शास्+ल्युट्, २.१) having no other ruler
उर्वीम्उर्वी (२.१) the earth
शशासशशास (√शास् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) ruled
एकपुरीम्एकपुरी (२.१) a single city
इवइव as if
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वे ला प्र यां
रि खी कृ सा राम्
न्य शा ना मु र्वीं
शा सै पु री मि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.