Loading data... On slow networks this could take a few minutes.
100%

तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा ।
पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा ॥

अन्वयः AI तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा सुदक्षिणा इति पत्नी अध्वरस्य दक्षिणा इव आसीत्।
सञ्जीविनीटीका (मल्लिनाथः) तस्येति॥ तस्य राज्ञो मगधवंशे जाता मगधवंशजा। सप्तम्यां जनेर्डः (अष्टाध्यायी ३.२.९७ ) इति डप्रत्ययः। एतेनाभिजात्यमुक्तम्। दाक्षिण्यं परच्छन्दानुवर्तनम्। दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु इति शाश्वतः। तेन रूढं प्रसिद्धम्। तेन नाम्ना। अध्वरस्य यज्ञस्य दक्षिणा दक्षिणाख्या पत्नीव। सुदक्षिणेति प्रसिद्धा पत्न्यासीत्। अत्र श्रुतिः-यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसः इति। दक्षिणाया दाक्षिण्यं नामर्त्विजो दक्षिणत्वप्रापकत्वम्। ते दक्षन्ते दक्षिणां प्रतिगृह्य इति च ॥
Summary AI He had a wife named Sudakṣiṇā, born of the Magadha dynasty, whose name was derived from her courtesy; she was like the sacrificial fee (dakṣiṇā) is to a sacrifice.
सारांश AI मगध वंश में जन्मी उनकी सुदक्षिणा नाम की पत्नी, यज्ञ की दक्षिणा के समान पवित्र और अपने नाम के अनुरूप ही अत्यंत चतुर एवं उदार थी।
पदच्छेदः AI
तस्यतद् (६.१) his
मगधवंशजामगधवंशजा (√जन्+ड, १.१) born in the Magadha dynasty
पत्नीपत्नी (१.१) wife
दाक्षिण्यरूढेनदाक्षिण्यरूढ (√रुह्+क्त, ३.१) established by her politeness
नाम्नानामन् (३.१) by name
सुदक्षिणासुदक्षिणा (१.१) Sudakṣiṇā
इतिइति thus
आसीत्आसीत् (√अस् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
अध्वरस्यअध्वर (६.१) of a sacrifice
इवइव like
दक्षिणादक्षिणा (१.१) the sacrificial fee
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्य दा क्षि ण्य रू ढे
ना म्ना वं जा
त्नी सु क्षि णे त्या सी
ध्व स्ये क्षि णा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.