स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमाश्रितौ ।
प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥

अन्वयः AI स्निग्धगम्भीरनिर्घोषम् एकम् स्यन्दनम् आश्रितौ तौ प्रावृषेण्यम् पयोवाहम् विद्युत् ऐरावतौ इव आस्ताम्।
सञ्जीविनीटीका (मल्लिनाथः) स्निग्धेति॥ स्निग्धो मधुरो गम्भीरो निर्घोषो यस्य तमेकं स्यन्दनं रथम्। प्रावृषि भवः प्रावृषेण्यः। प्रावृष एण्यः (अष्टाध्यायी ४.३.१७ ) इत्येण्यप्रत्ययः। तं प्रावृषेण्यं पयोवाहं मेघं विद्युदैरावताविव। आस्थितावारूढौ। जग्मतुरिति पूर्वेण संबन्धः। इरा आपः। इरा भूवाक्सुराप्सु स्यात् इत्यमरः। इरावान् समुद्रः। तत्र भव ऐरावतोऽभ्रमातङ्गः। ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः इत्ममरः। अभ्रमातङ्गत्वाञ्चाभ्रस्थत्वादभ्ररूपत्वात् इति क्षीरस्वामी। अत एव मेघारोहणं विद्युत्साहचर्यं च घटये। किंच विद्युत ऐरावतसाहचर्यादेवैरावतीसंज्ञा। ऐरावतस्य स्त्रयैरावतीति क्षीरस्वामी। तस्मात्सुष्ठूक्तं विद्युदैरावताविवेति। एकरथारोहणोक्त्या कार्यसिद्धिबीजं दंपत्योरत्यन्तसौमनस्यं सूचयति ॥
Summary AI Seated in a single chariot that made a soft yet deep sound, they appeared like lightning and the elephant Airāvata mounted on a rain-cloud.
सारांश AI गंभीर ध्वनि वाले एक ही रथ पर सवार वे दोनों, वर्षाकालीन मेघ पर शोभायमान बिजली और ऐरावत हाथी के समान प्रतीत हो रहे थे।
पदच्छेदः AI
स्निग्धगम्भीरनिर्घोषम्स्निग्धगम्भीरनिर्घोष (निर्√घुष्+घञ्, २.१) having a pleasant and deep sound
एकम्एक (२.१) single
स्यन्दनम्स्यन्दन (२.१) chariot
आश्रितौआश्रित (आ√श्रि+क्त, १.२) seated in
प्रावृषेण्यम्प्रावृष् (+एण्य, २.१) belonging to the rainy season
पयोवाहम्पयस्वाह (√वह्+घञ्, २.१) a cloud
विद्युदैरावतौविद्युत्ऐरावत (१.२) lightning and Airāvata
इवइव like
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्नि ग्ध म्भी नि र्घो
मे कं स्य न्द मा श्रि तौ
प्रा वृ षे ण्यं यो वा हं
वि द्यु दै रा ता वि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.