Loading data... On slow networks this could take a few minutes.
100%

मनोभिरामाः श्रृण्वन्तौ रथनेमिस्वनोन्मुखैः ।
षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥

अन्वयः AI रथनेमिस्वन उन्मुखैः शिखण्डिभिः द्विधा भिन्नाः षड्जसंवादिनीः मनोभिरामाः केकाः श्रृण्वन्तौ तौ जग्मतुः।
सञ्जीविनीटीका (मल्लिनाथः) मनोभिरामा इति॥ रथनेमिस्वनोन्मुखैः। मेघध्वनिशङ्कयोन्नमितमुखैरित्यर्थः। शिखण्डिभिर्मयूरैर्द्विधा भिन्नाः। शुद्धविकृतभेदेनाविष्कृतावस्थायांच्युताच्युतभेदेन वा षड्जो द्विविधः। तत्सादृश्यात्केका अपि द्विधा भिन्ना इत्युच्यते। अत एवाह-षड्जसंवादिनीरिति। षड्भ्यः स्थानेभ्यो जातः षड्जः। तदुक्तम्-नासाकण्ठमुरस्तालुजिह्वादन्तांश्च संस्पृशन् । षड्भ्यः संजायते यस्मात्तस्मात्षङ्ज्र इति स्मृतः ॥ स च तन्त्रीकण्ठजन्मा स्वरविशेषः। निषादर्पभागान्धारषड्जमध्यमधैवताः। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥ इत्यमरः (अमरकोशः २.५.३३ ) । षड्जेनसंवादिनीः सदृशीः। तदुक्तं मातङ्गेन-षड्जं मयूरो वदति इति। मनोभिरामा मनसः प्रियाः। के मूर्ध्नि कायन्ति ध्वनन्तीति केका मयूरवाण्यः। केका वाणी मयूरस्य इत्यमरः (अमरकोशः २.५.३३ ) । ताः केकाः शृण्वन्तौ। इति श्लोकार्थः॥
Summary AI They traveled listening to the delightful cries of peacocks, who turned their necks up at the sound of the chariot wheels; these cries were divided into two notes and harmonized with the ṣaḍja musical scale.
सारांश AI रथ के पहियों की ध्वनि सुनने को उत्सुक मोरों द्वारा की गई षड्ज स्वर वाली सुंदर 'केका' ध्वनियों को सुनते हुए वे दोनों आगे बढ़े।
पदच्छेदः AI
मनोभिरामाःमनस्अभिराम (अभि√रम्+घञ्, २.३) delightful to the mind
शृण्वन्तौशृण्वत् (√श्रु+शतृ, १.२) listening
रथनेमिस्वनोन्मुखैःरथनेमिस्वनउन्मुख (उत्√मुख, ३.३) looking up at the sound of the chariot's rim
षड्जसंवादिनीःषड्जसंवादिन् (सम्√वद्+णिन्, २.३) harmonizing with the Sadja note
केकाःकेका (२.३) peacock cries
द्विधाद्विधा in two ways
भिन्नाःभिन्न (√भिद्+क्त, २.३) split
शिखण्डिभिःशिखण्डिन् (३.३) by peacocks
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नो भि रा माः श्रृ ण्व न्तौ
ने मि स्व नो न्मु खैः
ड्ज सं वा दि नीः के का
द्वि धा भि न्नाः शि ण्डि भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.