Loading data... On slow networks this could take a few minutes.
100%

अथ वा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः ।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥

अन्वयः AI अथवा पूर्वसूरिभिः कृतवाग्द्वारे अस्मिन् वंशे वज्रसमुत्कीर्णे मणौ सूत्रस्य इव मे गतिः अस्ति ।
सञ्जीविनीटीका (मल्लिनाथः) अथ वेति॥ अथ वा पक्षान्तरे। पूर्वैः सूरिभिः कविभिर्वाल्मीक्यादिभिः कृतवाग्द्वारे कृतं रामायणादिप्रबन्धरूपा या वाक् सैव द्वारं प्रवेशो यस्य तस्मिन्। अस्मिन् सूर्यप्रभवे वंशे कुले। जन्मनैकलक्षणः संतानो वंशः। वज्रेण मणिवेधकसूचीविशेषण। वज्रं त्वस्त्त्री कुलिशशस्त्त्रयोः। मणिवेधे रत्नभेदे इति केशवः। समुत्कीर्णे विद्धे मणौ रत्ने सूत्रस्येव मे मम गतिः संचारोऽस्ति। वर्णनीये रघुवंशे मम वाक्प्रसरोऽस्तीत्यर्थः ॥
Summary AI Or perhaps, in this dynasty where a path of words has already been cleared by ancient sages, I may find passage like a thread through a gemstone previously perforated by a diamond needle.
सारांश AI अथवा पूर्व कवियों द्वारा सुगम बनाए गए इस वंश के वर्णन में मेरी वैसे ही गति है, जैसे वज्र से छिदे हुए मणि में धागे का प्रवेश सुलभ होता है।
पदच्छेदः AI
अथअथ or
वावा rather
कृतवाग्द्वारेकृतवाच्द्वार (७.१) in which the door of speech has been made
वंशेवंश (७.१) in the dynasty
अस्मिन्इदम् (७.१) in this
पूर्वसूरिभिःपूर्वसूरि (३.३) by previous sages
मणौमणि (७.१) in a gem
वज्रसमुत्कीर्णेवज्रसमुत्कीर्ण (सम्+उद्√कॄ+क्त, ७.१) pierced by a diamond needle
सूत्रस्यसूत्र (६.१) of a thread
इवइव like
अस्तिअस्ति (√अस् कर्तरि लट् (परस्मै.) प्र.पु. एक.) is
मेअस्मद् (६.१) my
गतिःगति (१.१) access
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वा कृ वा ग्द्वा रे
वं शे ऽस्मि न्पू र्व सू रि भिः
णौ ज्र मु त्की र्णे
सू त्र स्ये वा स्ति मे तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.