अथ यन्तारमादिश्य धुर्यान्विश्रामयेति सः ।
तामवारोपयत्पत्नीं रथादवततार च ॥

अन्वयः AI अथ सः यन्तारम् 'धुर्यान् विश्रामय' इति आदिश्य ताम् पत्नीम् रथात् अवारोपयत् अवततार च ।
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथाश्रमप्राप्त्यनन्तरं स राजा यन्तारं सारथिम्। धुरं वहन्तीति धुर्या युग्याः। धुरो यड्ढकौ (अष्टाध्यायी ४.४.७७ ) इति यत्प्रत्ययः। धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः इत्यमरः। धुर्यान् रथाश्वान् विश्रामय विनीतश्रमान्कुर्नित्यादिश्याज्ञाप्य तां पत्नीं रथादवारोहयदवतारितवान्स्वयं चावततार। विश्रमय इति ह्रस्वपाठे जनीजॄष्-, इति मित्वे १मितां ह्रस्वः इति ह्रस्वः। दीर्घपाठे मितां ह्रस्वः (अष्टाध्यायी ६.४.९२ ) इति सूत्रे वा चित्तविरागे इत्यतो वाइत्यनुवर्त्य व्यवस्थितविभाषाश्रयणत्वाद्ध्रस्वाभाव इति वृत्तकारः ॥
Summary AI The king then instructed the charioteer to rest the horses. He gently helped his wife, Sudakṣiṇā, descend from the chariot and then stepped down himself.
सारांश AI राजा दिलीप ने सारथी को घोड़ों को विश्राम देने का आदेश दिया और स्वयं रथ से उतरकर अपनी पत्नी सुदक्षिणा को भी सहारा देकर उतारा।
पदच्छेदः AI
अथअथ then
यन्तारम्यन्तृ (२.१) the charioteer
आदिश्यआदिश्य (आ√दिश्+ल्यप्) having commanded
धुर्यान्धुर्य (२.३) the carriage-horses
विश्रामयविश्रामय (वि√श्रम् +णिच् कर्तरि लोट् (परस्मै.) म.पु. एक.) cause to rest
इतिइति thus
सःतद् (१.१) he (Dilīpa)
ताम्तद् (२.१) her
अवारोपयत्अवारोपयत् (अव√रुह् +णिच् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) helped to descend
पत्नीम्पत्नी (२.१) the wife
रथात्रथ (५.१) from the chariot
अवततारअवततार (अव√तॄ कर्तरि लिट् (परस्मै.) प्र.पु. एक.) descended
and
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्ता मा दि श्य
धु र्या न्वि श्रा ये ति सः
ता वा रो त्प त्नीं
था ता
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.