तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः ।
अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥

अन्वयः AI सभ्याः गुप्त-तम-इन्द्रियाः मुनयो नय-चक्षुषे अर्हते स-भार्याय तस्मै गोप्त्रे अर्हणाम् चक्रुः ।
सञ्जीविनीटीका (मल्लिनाथः) तस्मा इति॥ सभायां साधवः सभ्याः। सभाया यः (अष्टाध्यायी ४.४.१०४ ) इति यप्रत्ययः। गुप्ततमेन्द्रियाः अत्यन्तनियमितेन्द्रियाः। मुनयः सभार्याय गोप्त्रे रक्षकाय। नयः शास्त्रमेव चक्षुस्तत्त्वावेदकं प्रमाणं यस्य तस्मै नयचक्षुषे। अत एवार्हते प्रशस्ताय। पूज्यायेत्यर्थः। अर्हः प्रशंसायाम् (अष्टाध्यायी ३.२.१३३ ) इति शतृप्रत्ययः। तस्मै राज्ञेऽर्हणां पूजां चक्रुः। पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः इत्यमरः (अमरकोशः २.७.३७ )
Summary AI The refined and self-controlled sages offered a respectful welcome and worship to the deserving king and his wife. They recognized Dilīpa as the righteous protector of the world, guided by the eyes of justice.
सारांश AI जितेंद्रिय और नीतिवान ऋषियों ने प्रजापालक राजा दिलीप और उनकी पत्नी का शास्त्रोक्त विधि से पूजन और आतिथ्य सत्कार किया।
पदच्छेदः AI
तस्मैतद् (४.१) to him
सभ्याःसभ्य (१.३) the polite/refined ones
सभार्यायभार्या (४.१) with his wife
गोप्त्रेगोप्तृ (४.१) to the protector
गुप्ततमेन्द्रियाःगुप्त (√गुप्+क्त)तमइन्द्रिय (१.३) those whose senses were highly controlled
अर्हणाम्अर्हणा (२.१) worship/hospitality
अर्हतेअर्हत् (√अर्ह्+शतृ, ४.१) to the deserving one
चक्रुःचक्रुः (√कृ कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) they performed
मुनयःमुनि (१.३) the sages
नयचक्षुषेनयचक्षुस् (४.१) to him whose eyes are statesmanship
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्मै भ्याः भा र्या
गो प्त्रे गु प्त मे न्द्रि याः
र्ह णा र्ह ते क्रु
र्मु यो क्षु षे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.