तयोर्जगृहतुः पादान्राजा राज्ञी च मागधी ।
तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥

अन्वयः AI राजा राज्ञी मागधी च तयोः पादान् जगृहतुः गुरुः गुरु-पत्नी च तौ प्रीत्या प्रतिननन्दतुः ।
सञ्जीविनीटीका (मल्लिनाथः) तयोरिति॥ मागधी मगधराजपुत्री राज्ञी सुदक्षिणा राजा च तयोररुन्धतीवसिष्ठयोः पादाञ्जगृहतुः। पादः पदङ्गिश्चरणो।ञस्त्रियाम इत्यमरः। पादग्रहणमभिवादनम्। गुरुपत्नी गुरुश्च कर्तारौ सा च स च तौ सुदक्षिणादिलीपौ कर्मभूतौ प्रीत्या हर्षेण प्रतिननन्दतुः। आशीर्वदादिभिः संभावयांचक्रतुरित्यर्थः ॥
Summary AI King Dilīpa and Queen Sudakṣiṇā touched the feet of the guru and his wife. In return, the venerable Vasiṣṭha and Arundhatī welcomed the royal couple with great affection and joy.
सारांश AI राजा दिलीप और मगधराज की पुत्री सुदक्षिणा ने गुरु वसिष्ठ और उनकी पत्नी अरुंधती के चरण स्पर्श किए, और उन दोनों ने प्रसन्नतापूर्वक उन्हें आशीर्वाद दिया।
पदच्छेदः AI
तयोःतद् (६.२) of those two
जगृहतुःजगृहतुः (√ग्रह् कर्तरि लिट् (परस्मै.) प्र.पु. द्वि.) they two touched/grasped
राजाराजन् (१.१) the King
राज्ञीराज्ञी (१.१) the Queen
and
मागधीमागधी (१.१) the princess of Magadha
तौतद् (२.२) those two
गुरुःगुरु (१.१) the preceptor
गुरुपत्नीगुरुपत्नी (१.१) the preceptor's wife
प्रीत्याप्रीति (३.१) with affection
प्रतिननन्दतुःप्रतिननन्दतुः (प्रति√नन्द् कर्तरि लिट् (परस्मै.) प्र.पु. द्वि.) they two greeted/blessed in return
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यो र्ज गृ तुः पा दा
न्रा जा रा ज्ञी मा धी
तौ गु रु र्गु रु त्नी
प्री त्या प्र ति न्द तुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.