Loading data... On slow networks this could take a few minutes.
100%

उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।
दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् ॥

अन्वयः AI यस्य मे सप्तसु अङ्गेषु शिवम्, दैवीनाम् मानुषीणाम् च आपदाम् प्रतिहर्ता त्वम्, (तस्य मे कुशलम्) ननु उपपन्नम् ।
सञ्जीविनीटीका (मल्लिनाथः) उपपन्नमिति॥ हे गुरो! सप्तस्वङ्गेषु स्वाम्यमात्यादिषु । स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च । सप्ताङ्गानि इत्यमरः (अमरकोशः ३.३.२६३ ) । शिवं कुशलमुपपन्नं ननु युक्तमेव। नन्ववधारणे। प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु इत्यमरः (अमरकोशः ३.३.२६३ ) । कथमित्यत्राह-यस्य मे दैवीनां देवेभ्य आगतानां दुर्भिक्षादीनाम्, मानुषीणां मनुष्येभ्य आगतानां चौरभयादीनाम्। उभयत्रापि तत आगतः (अष्टाध्यायी ४.३.७४ ) इत्यण्। टिड्ढाणञ्- (अष्टाध्यायी ४.१.१५ ) इत्यादिना ङीप्। आपदां व्यसनानां त्वं प्रतिहर्ता वारयिताऽसि। अत्राह कामन्दकः-हुताशनो जलं व्याधिर्दुर्भिक्षं मरणं तथा। इति पञ्चविधं दैवं मानुषं व्यसनं ततः ॥ आयुक्तकेभ्यश्चौरेभ्यः परेभ्यो राजवल्लभात्। पृथिवीपतिलोभाञ्च नराणां पञ्चधा मतम् ॥इति ॥
Summary AI The king said that since the sage is the protector against all divine and human calamities, it is only natural that all seven limbs of his state are secure and flourishing.
सारांश AI राजा ने कहा कि हे महर्षि, जब आप जैसा समर्थ व्यक्ति दैवीय और मानवीय विपत्तियों को दूर करने वाला हो, तो मेरे राज्य के सातों अंगों का कुशल होना निश्चित ही है।
पदच्छेदः AI
उपपन्नम्उपपन्न (उप√पद्+क्त, १.१) appropriate/natural
ननुननु certainly
शिवम्शिव (१.१) welfare
सप्तसुसप्तन् (७.३) in the seven
अङ्गेषुअङ्ग (७.३) in the limbs (of the state)
यस्ययद् (६.१) of whom
मेअस्मद् (६.१) my
दैवीणाम्दैव (६.३) of divine
मानुषीणाम्मानुष (६.३) of human
and
प्रतिहर्ताप्रतिहर्तृ (प्रति√हृ+तृच्, १.१) the averter/remover
त्वम्युष्मद् (१.१) you
आपदाम्आपद् (६.३) of calamities
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्नं नु शि वं
प्त स्व ङ्गे षु स्य मे
दै वी नां मा नु षी णां
प्र ति र्ता त्व मा दाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.