Loading data... On slow networks this could take a few minutes.
100%

पुरुषायुषजीविन्यो निरातङ्का निरीतयः ।
यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्बह्मवर्चसम् ॥

अन्वयः AI मदीयाः प्रजाः पुरुष-आयुष-जीविन्यः निरातङ्काः निरीतयः (सन्ति), यत् तस्य हेतुः त्वद्-ब्रह्म-वर्चसम् (अस्ति)।
सञ्जीविनीटीका (मल्लिनाथः) पुरुषेति॥ आयुर्जीवितकालः। पुरुषस्यायुः पुरुपषायुषम्। वर्षशतमित्यर्थः। शतायुर्वै पुरुषः इति श्रुतेः। अचतुर- (अष्टाध्यायी ५.४.७७ ) आदिसूत्रेणाच्प्रत्ययान्तो निपातः। मदीयाः प्रजाः। पुरुषायुषं जीवन्तीति पुरुषायुषजीविन्यः। निरातङ्का निर्भयाः, आतङ्को भयमाशङ्का इति हलायुधः। निरीतयोऽतिवृष्ट्यादिरहिता इति यत्तस्य सर्वस्य त्वद्ब्रह्मवर्चसं तव व्रताध्ययनसंपत्तिरेव हेतुः। व्रताध्ययनसंपत्तिरित्येतद्ब्रह्मवर्चसम् इति हलायुधः। ब्रह्मणो वर्चो ब्रह्मवर्चसम् । ब्रह्महस्तिभ्यां वर्चसः (अष्टाध्यायी ५.४.७८ ) इत्यच्प्रत्ययः। अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥ इति कामन्दकः ॥
Summary AI That my subjects live their full lifespan, free from diseases and calamities, is solely due to your spiritual power derived from the Vedas.
सारांश AI मेरी प्रजा जो पूर्ण आयु जीती है और रोगों एवं प्राकृतिक आपदाओं से मुक्त है, उसका मुख्य कारण आपका आध्यात्मिक तेज ही है।
पदच्छेदः AI
पुरुषायुषजीविन्यःपुरुषआयुस्जीविन् (√जीव्+णिनि, १.३) living a full human lifespan
निरातङ्काःनिर्आतङ्क (१.३) free from fear
निरीतयःनिर्ईति (१.३) free from calamities
यत्यद् (१.१) that which
मदीयाःमदीय (१.३) my
प्रजाःप्रजा (१.३) subjects
तस्यतद् (६.१) of that
हेतुःहेतु (१.१) cause
त्वद्ब्रह्मवर्चसम्त्वद्ब्रह्मन्वर्चस् (१.१) your spiritual power
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पु रु षा यु जी वि न्यो
नि रा ङ्का नि री यः
न्म दी याः प्र जा स्त स्य
हे तु स्त्व द्ब ह्म र्च सम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.